________________
घोses us२-७
: योगदीपिका : अविनष्ट-चित्तसम्बन्ध स्तुवन्नाह-एष इत्यादि ।
एषः-परस्परमविनष्ट-चित्त-योगो, द्वयोरपि-प्रागुक्तयोविशिष्टकार्यस्य-फलवज्जिनबिम्ब-लक्षणस्य प्रसाधकत्वेन-निर्विघ्ननिर्वर्तकत्वेन महान्-गुरुः, इह सम्बन्धे क्षुण्णंवैकल्यं मिथ:-परस्परं सन्तः-सत्पुरुषा न प्रशंसन्ति, स्तोकस्यापि चित्तभेदस्य फलहानिकरत्वादिति भावः ॥५॥
यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित् ।। तबिम्बकारणानीह तस्य तावन्ति तत्त्वेन ॥६॥
विवरणम् : जिनबिम्बकारणे भावप्राधान्यमुररीकृत्याह - यावन्त इत्यादि ।
यावन्तो-यत्परिणामाः परितोषाः-प्रीतिविशेषाः कारयितुः-अधिकृतस्य तस्य तत्समुद्भवा- बिम्बसमुद्भवाः केचित्-केऽपि, चिच्छब्दोऽप्यर्थे, तद्विम्बकारणानि-जिनबिम्ब-निर्वर्तनानि इह-प्रक्रमे तस्य-कारयितुस्तावन्तितत्परिमाणानि तत्त्वेन-परमार्थेन ॥६॥
: योगदिपीका : जिन-बिम्ब-कारणे भाव-प्राधान्यं पुरस्कुर्वन्नाह - यावन्त इत्यादि ।
यावन्तो-यत्परिणामाः परितोषाः-प्रीतिविशेषाः - कारयितु:-अधिकृतस्य तत्समुद्भवा-बिम्ब-निमित्त-जनिताः केचित्-केऽपि चिच्छब्दोऽप्यर्थे, इह-प्रक्रमे तस्यकारयितुः तद्विम्ब-कारणानि जिनबिम्बनिर्वर्तनानि तावन्ति- तत्परिमाणानि तत्त्वेनपरमार्थेन तावत्फलसम्पत्तेः, फलस्य भावानुसारित्वात्, ततः प्रीतिविशेष इह सानुबन्धः कर्तव्य इति हृदयम् ॥६॥
अप्रीतिरपि च तस्मिन् भगवति परमार्थ-नीतितो ज्ञेया । सर्वापाय-निमित्तं ह्येषा पापा न कर्तव्या ॥७॥
હવે જિનબિંબ ભરાવવામાં ભાવનું પ્રાધાન્ય શું છે, તે બતાવે છે.
જિનબિંબ ભરાવનાર ભાગ્યશાળીને જેટલાં પ્રીતિવિશેષો એટલે કે મનના આનંદો - માનસિક પરિતોષો થાય છે. તે બધા વાસ્તવમાં જિનબિંબ નિર્માણના કારણે થાય છે. તેથી એ પ્રીતિવિશેષોને સાનુબંધ બનાવવા જોઈએ. અર્થાતુ એ પ્રીતિવિશેષોની પરંપરા ચાલવી જોઇએ કારણ કે – વાસ્તવમાં ફળની પ્રાપ્તિ ભાવના અનુસારે જ થાય છે. ૬