________________
॥सप्तमो जिनबिम्बविधानाधिकारः ॥ जिनभवने तद्विम्बं कारयितव्यं द्रुतं तु बुद्धिमता। साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद् भवति ॥१॥
:विवरणम् : एवं जिनभवनकारणविधानमभिधाय तद्विम्बस्य कारयितव्यतां प्रत्याह - जिनभवन इत्यादि।
जिनभवने-जिनायतने तद्विम्बं-जिनबिम्बं कारयितव्यं-कारणीयं द्रुतं तु-शीघ्रमेव बुध्दिमता-बुद्धिसम्पन्नेन । किमिति द्रुतं कारयितव्यमित्याह-हि-यस्मात् साधिष्ठानंसाधिष्ठातृकमेव जिनबिम्बेनैव तद्भवनं प्रस्तुतं वृद्धिमद् भवति-वृद्धिभाग्भवति ॥१॥
: योगदीपिका : एवं जिनभवनकारणविधानमभिधाय तदबिम्बस्य कारयितव्यतां सङ्गमयति-जिनेत्यादि। जिनभवने तस्य-जिनस्य बिम्बं कारयितव्यं द्वतं तु-शीघ्रमेव बुद्धिमता-कार्य-क्रमधी-शालिना हि-यत एवं-जिन-बिम्ब-कारणे तत् प्रस्तुतं भवनं साधिष्ठानं-अधिष्ठातृसहितं वृद्धिमद् भवति-तज्जनितपुण्यस्य तत्प्रवर्दकत्वात् ॥१॥
जिनबिम्ब-कारण-विधिः काले पूजा-पुरस्सरं कर्तुः। विभवोचितमूल्यार्पणमनघस्य शुभेन भावेन ॥२॥
विवरणम् : तबिम्बकारणविधिमाह - जिनेत्यादि। जिनबिम्बकारणविधिः अभिधीयत इति वाक्यशेषः, काले-अवसरे पूजापुरःसरं
-
૭ - જિનબર્બાવધાન ષોડશ8
- છટ્ટા ષોડશકમાં જિનમંદિર બંધાવવાનું વિધાન બતાવ્યું. શાસ્ત્રકાર મહર્ષિહવે આ સાતમા ષોડશકમાં જિનબિમ્બ ભરાવવાનું વિધાન બતાવે છે.
બુદ્ધિ સંપન્ન આત્માએ જિનમંદિરમાં પધરાવવા યોગ્ય જિનબિમ્બ જલદીથી ભરાવવું જોઇએ. કારણ કે જિનબિમ્બથી અધિષ્ઠિત - સહિત એવું જિનમંદિર પુણ્યની વૃદ્ધિ કરનારું થાય छ.१ * જિનબિંબ ભરાવવાનો વિધિ : શુભમુહૂર્તમાં હૃદયના શુદ્ધભાવથી મૂર્તિ બનાવનાર रीगरनी (शिल्पानी) मोन, ५, पुष्प, मेरे द्वारा पूल (सन्मान) रीने, रीगर