________________
८८
षोडश प्रकरएा
गरीयान् विशेष इति । ‘विहितमतोऽदुष्टमेतदिति' विहितं शास्त्रे जिनभवनमतो हेतोरदुष्टम्अदोषवद् एतत्-पूर्वोक्तं जिनभवनकारणमिति ॥१६॥
इत्याचार्यश्रीमद् यशोभद्रसूरिकृतषोडशाधिकारविवरणे षष्ठोऽधिकारः ॥ योगदीपिका :
ननु पृथिव्याद्युपमर्दमन्तरेण जिनभवनकारणं न सम्भवति तत्र च नियमेन हिंसेति कथमतो धर्मवृद्धिरित्याशङ्कयाह-यतनात इत्यादि ।
यतना - राग-द्वेष-रहितः शास्त्राज्ञाशुद्धः प्रयत्नः ।
" रागद्दोसविउत्तो जोगो असढस्स होई जयणाओ" इत्यागमात् ।
ततो न च नैव हिंसा जिनभवनविधाने, यतनायां सत्यां भावहिंसाऽनुपपत्तेः, तस्या एव शास्त्रे परिहरर्त्तव्यत्वेन प्रतिपादनाद्, द्रव्यहिंसायास्तु सर्वथा साधुविहारादावपि दुःपरिहरत्वात्। द्रव्यहिंसामप्याश्रित्याऽऽह यस्माद् एषैव यतनैव तन्निवृत्तिफलाहिंसानिवृत्ति-फला, कथमिति चेत् ? तस्यां हिंसायां अधिकनिवृत्तेः अधिकारम्भत्यागस्य भावात् ।
तत्र हि जिनभवनादिविधाने सर्वादरेण प्रवर्त्तमानस्य निष्फलपरिहारेण सफलमेव कुर्वतोऽवश्यमेवास्ति आरम्भान्तर - निवृत्तिविशेषः । विहितं शास्त्रे जिनभवनमतो हेतोः अदुष्टम् - अदोषवद् एतद् - जिनभवन-विधानम् इति । विहितत्वादेव न निरारम्भसामायिकादिना तदन्यथासिध्दिः, एकानुष्ठानस्य विहितान्यानपवादकत्वाद्, अन्यथा दानादीनामपि तेनान्यथासिद्ध्यापत्तेरिति दिक् ॥१६॥
इति न्यायविशारद - महोपाध्याय श्रीमद्-यशोविजयगणिप्रणीत 'योगदीपिका' व्याख्यायां षष्ठोऽधिकारः ॥ ॥ इति जिन - भवन - विधानाधिकारः ॥
જિનમંદિરના નિર્માણનું શાસ્ત્રોમાં વિધાન - ફરમાન હોવાથી પણ તે દોષરહિત છે.
હિંસાદિ આરંભ દોષથી રહિત સામાયિક વગેરે નિવદ્ય ધર્મો સર્વજ્ઞભગવાને કહ્યા છે, તેથી હિંસાદિ આરંભ દોષોવાળા જિનમંદિરનું નિર્માણ કરવું જરૂરી નથી એમ કહેવું એ પણ યોગ્ય નથી. શાસ્ત્રોમાં કહેલા ધર્મ અંગેનાં જુદાં જુદાં વિધાનો એકબીજાનાં બાધક નથી. નહીંતર દાનાદિ ધર્મો પણ અન્યથાસિદ્ધ બની જાય. અર્થાત્ એ પણ ન કરવા જોઈએ, એમ સાબિત થાય. સારાંશ એ થયો કે - જિનમંદિરના નિર્માણનું વિધાન પણ એના અધિકારી જીવોનાં કલ્યાણ માટે છે. ૧૬
छट्टु षोडशड समाप्त.....