________________
कारिका १२३-१२४-१२५-१२६ ]
प्रशमरतिप्रकरणम्
८५
मनुष्य समस्त चिन्ताओंसे मुक्त होनेके कारण उससे अनन्तगुणे सुखको विना परिश्रम किये ही प्राप्त कर लेता है । क्योंकि आत्मिक सुखके लिए किसी पर-पदार्थकी आवश्यकता नहीं होती है ।
और भी :
इष्टवियोगाप्रियसंप्रयोगकाङ्क्षासमुद्भवं दुःखम् ।
प्राप्नोति तत्सरागो न संस्पृशति तद्विगतरागः ॥ १२५ ॥
टीका - इष्टस्य शब्दादेः पुत्रादेव हिरण्यसुवर्णादेर्वा वियोगे, अनिष्टस्य चाप्रियस्य वा संयोगे इष्टे तावदविप्रयोगाकाङ्क्षा अनिष्टे च विप्रयोगा, तस्याः काङ्क्षायाः समुद्भूतम्-उत्पन्नं यद्दुःखं सरागो विषयसुखाभिलाषी यत् प्राप्नोति तद्दुःखं विगतरागो न संस्पृशति - नासादयति । 'विगतरागेण मध्यस्थेन तन्न प्राप्यते ' इत्यर्थः ॥ १२५ ॥
अर्थ - इष्टका वियोग, अनिष्टका संयोग, इष्टके वियोग न होनेकी इच्छा, और अनिष्टके संयोग न होनेकी इच्छासे होनेवाला जो दुःख सरागीको उठाना पड़ता है, वीतरागीको वह दुःख छूता भी नहीं है ।
भावार्थ - इष्ट पुत्र वगैरहका वियोग हो जानेपर तथा अनिष्ट- अप्रिय वस्तुका संयोग हो जानेपर सरागीको बड़ा दुःख होता है तथा रात-दिन वह यही चाहता रहता है, किसी इष्ट वस्तुका उसके वियोग न हो और अनिष्टका संयोग न हो। किन्तु वीतरागी इष्ट और अनिष्टमें समबुद्धि होती । अतः उसे इष्ट-वियोग और अनिष्ट - संयोग से होनेवाला दुःख कभी नहीं होता
1
2
प्रशमितवेदकषायस्य हास्यरत्यरतिशोकंनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ॥ १२६ ॥
टीका - प्रशमिता प्रशमं नीता वेदकषाया येन । वेदाः स्त्री पुन्नपुंसकाख्याः । कृषायाः क्रोधादयः । वेदोदयात्Ýमानभिलषति स्त्रियम्, स्त्री च पुमांसम् तदुभयं नपुंसकः । तर्दुमयाच्च [ तदुभयस्य चात्रा-] अप्राप्तौ दुःखम् । प्रशमितवेदस्य तन्न भवति । क्रोधाद्यग्न्यादीपितोऽपि दुःखभागेव जायते । शमितकषायस्यतु तदभावः । हास्य हर्षाद्भवतिः रतिः प्रीतिर्विषयेषु सक्तिः । अरतिरूद्वेगः । शोको मानसं दुःखमिष्टवियोगादौ । एतेषु हास्यादिषु मोहभेदेषु निभृतः स्वस्थः । सत्यपि हास्यकारणे नास्ति हास्यं न रतिर्नारतिः । सत्स्वपि तत्कारणेषु अनित्यता भावना, ततश्च शोकोऽपि नास्त्येव । भयमिहलोकींदि सप्तविधम् । कुत्सा जुगुप्सा निन्दा | साप्य नित्यताभावनात एवनिर्जिता । भयमपि सावष्टम्भमेव भवैकारणापगमाद्वा विजयते । एवं भयकुत्साभ्यामनभिभूतस्य यत्सुखं प्रशान्तचेतसः तत्कृतोऽन्येषां रागिणामिति ॥ १२६ ॥
१ - निवृत्तस्य - फ० । २- पुनर्नाभि- फ०, ब० । ३- तदुदयाच्चः - प० । ४-कादानादि प०, ब० । ५- 'भय' इत्यपि सुष्ठु प्रतिभाति । ६-म्यामुद्भूतरूप - फ०, ब० ।-भ्यामुद्भूनस्य निरभिभवस्य मु० ।