________________
कारिका ११३-११४-११५] प्रशमरतिप्रकरणम् । कर्मबन्धः। तद्वधविरतिश्च मनोवाक्कायैः कृतकारितानुमतिपरिहाराद् इति । षट्सु जीवनिकायेषु थतना प्रयत्नस्तद्रक्षणे ज्ञानपूर्वको व्यापार इति । लोकविजये लौकिकसन्तानगौरवत्यागः-। लौकिकसन्तानो मातृपित्रन्वयः शेषाश्च स्वजनसम्बन्धिनः पत्नी पुत्रादयः, तेषु गौरवम्-आदरः स्नेहासक्तिः, तत्त्यागः । तथा क्रोधमानमायालोभकषायविजयो विधेयो बलवता क्षमादिना बलेन । शीतोष्णीयाध्ययने शीतोष्णादिपरीषहविजयः-क्षुत्पिपासादिपरीषेहद्वाविंशतर्विजयःअभिभवः । तत्र स्त्रीसत्कारपरीषही भावतः शीतौ विशतिरुष्णाः शेषाः। सम्यक्त्वाध्ययने शङ्कादिशल्यशुद्धं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमविकम्प्यं दृढं निश्चितं वर्ण्यते ॥ ११४ ॥
लोकसाराध्ययने-'लोकसार ' इति अन्वर्थनाम आदिपदेनावंतिरिति । तत्र संसारादुद्वेगः हिंसादिप्रवृत्तो न मुनिः, तद्विरतोमुनिरकिञ्चनः कामभोगेषूद्विग्नोऽनेकदोषदर्शनात् । धर्मज्ञान संयमनिर्वाणाख्यं लोकसारमवेक्ष्यमाणः ससहायो मार्गमेवापरित्यजन् सारमेवासादयति लोकस्येति । धूताध्ययने स्वजनमित्रकलत्रपुत्रादिनिरपेक्षता, तद्विधूननं तत्परित्यागः, कर्मणाञ्च ज्ञानावरणादीनां विधूननोपायः, श्रुतज्ञानानुसारिक्रियानुष्ठानं शरीरोपकरणत्यागश्चेति । महापरिज्ञायां मूलोत्तरगुणान् परिज्ञाय यथावदवेत्य मन्त्रतन्त्राकाशगतिलन्धिपंजीवनम् । प्रत्याख्यान परिज्ञायाञ्च प्रत्याख्याकर्तव्यानि व्यावृत्तेन सदा ज्ञानदर्शनचरणेषूद्युक्तेन भवितव्यमिति तदाहवैयावृत्योद्योगः । विमोक्षयतनाध्यायने श्रावकाणां देशविमोक्षः साधूनां सर्वविमोक्षः क्षीणकर्मणां मुक्तानामात्मनोऽपि स्वजनितैरेव कर्मभिर्बद्धस्य सकलकर्माश-वियोगो मोक्षः सप्रपञ्चो भक्तप्रत्याख्यानेंगिनीपादपोपगमनमरणैः सह वर्ण्यते । तपोविधिः प्राधान्यद् गृहीतः । उपधानश्रुते
___ भगवता श्रीवर्द्धमानस्वामिना स्वानुष्ठिततपोव्यावर्णनं योषित्यागो ब्रह्मचर्यादिलक्षणं कृतम् । एवमाचारो नवाध्यायनात्मकोऽर्थतो विभक्तः ॥ ११५ ॥
अर्थ-छह जीवकायोंकी रक्षा करना, कुटुम्बी जनोंमें ममत्वका त्याग, शीत-उष्ण वगैरह परीषट्ठोंको जीतना, निश्चल सम्यक्त्व, संसारसे घबराहट, कर्मोके क्षय करनेका कुशल उपाय, वैयावृत्यमें तत्परता, तपकी विधि और स्त्रियोंका त्याग-ये आचारके नौ भेद हैं।
भावार्थ-शास्त्रपरिज्ञा नामके पहले अध्ययन में प्रारम्भमें सामान्यसे जीवके अस्तित्वका कथन किया है । उसके बादमें पृथिवीकाय, अप्काय, तेजकाय, वायुकाय, वनस्पतिकाय और त्रसकायका वर्णन किया है। उनका घात करनेसे संसारका कारण-कर्मबन्ध होता है। अतः मन, वचन, काय और कृत, कारित, अनुमोदनासे उनके वधका त्याग करके उनकी रक्षाका प्रयत्न करना चाहिए। लोकविजय नामके दूसरे अध्ययनमें मातृवंश, पितृवंश और पत्नी-पुत्र वगैरहमें आसक्तिके त्यागका कथन है । तथा
१-षड्जीवकार्य-प.। २-पहाणां द्वा-मु०। ३-र्य ना-मु० । ४-मो नैक-फ०, ब०। ५-ज्ञानसं-प०। ६-योऽमार्ग-मु०। ७-मेव परित्यज्य मु०-मेवोपरित्यज्य फ०, ब०। ८-सारमासाफ०, ब०। ९-नां च धून-फ०, ०। १०-लन्धेर-फ० ब०। ११-ख्याय परिहर्तव्या-मु०-ख्याय कर्त-च। १२-भिर्यद्यस्य, फ०, ब०।