________________
५२
रायचन्द्रजैनशास्त्रमालायाम् [पञ्चमोऽधिकारः, पञ्चेन्द्रियविषयाः योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः ।
तस्मात् कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥
टीका-योगनिरोधस्य फलं जन्मजरामरणप्रबन्धलक्षणाया नरकादिभवसन्ततेरात्यन्तिकः क्षयः । जन्मादिसन्ततिक्षयाच मोक्षावाप्तिः । ऐकान्तिकात्यन्तिकादिगुणयुक्तं स्वात्मन्यवस्थानं मोक्षः। तस्मात् पारम्पर्यद्वारेण सर्वकल्याणानां भाजनम्-आश्रयो विनयः । सर्वकल्याणरूपो मोक्षः। अथवा गुरुश्रूषादिकल्याणं यावदयोगित्वं भवसन्ततिक्षयश्च, सर्वाण्येतानि कल्याणानि, ऐषां फलं मोक्ष इति।
अर्थ-योगोंके रुकनेसे नरकादिरूप भवोंकी परम्पराका नाश हो जाता है। भव-परम्पराके नाश हो जानेसे मोक्षकी प्राप्ति होती है। अतः विनय सब कल्याणोंका मूल है ।
भावार्थ-विनयका फल योग-निरोध ही नहीं है। योग-निरोधसे नरक, तिर्यञ्च, मनुष्य और देवरूप भवोंकी कड़ी नष्ट हो जाती है, और इस भव-परम्पराके नाशसे अविनश्वर मोक्षकी प्राप्ति हो जाती है । इस तरह विनयका महान् फल है । इस गुणके कारण परम्परासे मोक्षतक प्राप्त हो जाता है, और यह जीव सदाके लिए संसारके अनन्त दुःखोंसे छूट जाता है।
'ये पुनरविनीतास्तेषां कः फलविपाकः ? ' इत्याहअब अविनयी मनुष्योंको जो कुछ फल भोगना पड़ता है, उसे बतलाते हैं :विनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीलाः ।
त्रुटिमात्रविषयसंगादजरामरवनिरुद्विग्नाः ॥ ७५ ॥ टीका-उक्तलक्षणो विनयः । तस्माद् व्यपेतं विगतं मनो येषां विनयव्यपेतमनसः । गुरूणाम्-आचार्यादीनाम् । विद्वान्सः-अन्येऽपि चतुर्दशपूर्वाद्यर्थज्ञाः । ज्ञानादिसाधनत्रयेण मोक्षमभिलषन्तः साधयन्तः साधवः । येषां परिभवः-अनादरो वंदनाभ्युत्थानादिप्रतिपत्तेरकरणम् , तदेव च शीलं स्वभावो येषाम् । त्रुटिरनन्तपरमाणुसंहतिलक्षणोऽल्पकः सवितृकिरण प्रकाशित । वातायनादिषु भ्रमन् दृश्यते । तन्मात्रो विषयसङ्गस्वल्पको निस्सारः शब्दादिविषयेषु यः सङ्गस्तस्मादासक्तेः प्रत्यवायमागामिनमचेतयन्तः। अजरामरवनिरुद्विग्नाः। जरा च मरश्च जरामरौ, अविद्यमानौ जरामरौ यस्यासौ अजरामरः, तद्वन्निरुद्विनाः-निर्भयाः मुक्ता एव अजरामराः सर्वसङ्गनिर्मुक्ताः, तद्वदात्मानं मन्यते 'नाहं जरां प्राप्स्यामि न च मरणम्, स्वल्पकविषयसुखासक्तत्वात् ' इति ॥ ७५ ॥
अर्थ-जो अविनयी हैं, वे गुरुओं, विद्वानों और साधुओंका अनादर करते हैं और त्रुटिरेणु के बराबर विषयोंमें आसक्त होकर अजर-अमर मुक्तात्माके समान निर्भय हो जाते हैं।
भावार्थ-जिनके मनमें विनयका लेश मो नहीं रहता है, वे आचार्योंका, चौदह पूर्व वगैरह के पाठी विद्वानोंका और साधुओंका अनादर करनेमें स्वभावसे प्रवृत्त रहते हैं । झरोखोंके द्वारा आने