SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४६ रायचन्द्रजैनशास्त्रमालायाम् [पञ्चमोऽधिकारः, पश्चेन्द्रियविषया न च निर्द्वन्द्वं मनुष्यजन्म, यस्मात्-- और मनुष्य-जन्म निर्द्वन्द्व भी नहीं है; क्योंकि आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः ॥६५॥ टीका-नीरुजत्वमारोग्यम् तच्चलम् 'अनित्यम् ' इत्यर्थः। नीरुजोऽपि रोगान् लभन्ते सनत्कुमारादिवत् । आयुरपि शुक्रविन्दोराधा नात् प्रभृति गर्भकौमारयौवनस्थविरावस्थासु प्रतिक्षणं क्षययुक्तम् , अध्यवसानादिभिश्च प्रकारैः सप्तभिर्भेदमुपैति । बलं प्राणः । उत्साहो वीर्यान्तरायक्षयोपशमजः सामर्थ्यविशेषः । स च बलवतो दृष्टः, पुनस्तस्यैव दुर्बलावस्थायां न संभवतीति अनित्य एव । समुदया इति धनधान्यादिनिचयाः क्षणभङ्गराः। वीर्यञ्च उत्साहः । ५ परीषहजयादौ तदनियतं विनश्वरम् । धर्मे क्षान्त्यादिके तल्लब्ध्वा-प्राप्य, हितकार्ये-हितं ज्ञानादि, तदेव कार्यम्, तत्र । मया उत्साहः सर्वथा सर्वप्रकारमविश्रान्त्या कार्य इति ॥६५॥ अर्थ-आरोग्य, आयु, बल और लक्ष्मी ये सभी चञ्चल हैं । धर्ममें उत्साहकी स्थिरता नहीं है। इन्हें प्राप्त करके मुझे सब प्रकारसे हितकारी कार्यमें प्रयत्न करना चाहिए। भावार्थ-नीरोगता सर्वदा नहीं रहती । नीरोग मनुष्य भी सनत्कुमार चक्रवर्ती की तरह रोगी हो जाते हैं । आयु भी गर्भ, बाल, जवानी और बुढ़ापेमें प्रतिक्षण नष्ट होती रहती है । वीर्यान्तरायके क्षयोपशमसे होनेवाला बल भी बलवान्में ही देखा जाता है । वही जब दुर्बल हो जाता है, तब बल नहीं रहता । अतः बल भी अनित्य है । धन-धान्य आदि लक्ष्मी भी क्षणभङ्गर है । परषिहके जीतने वगैरहमें मनुष्यका जो उत्साह रहता है, वह भी सर्वदा नहीं रहता। अत: इन्हें प्राप्त करके ज्ञानाभ्यास वगैरह कार्योंमें मुझे सब प्रकारसे प्रयत्न करना चाहिए। 'किं पुनस्तद्धितम् ' ? इत्याह-- हित क्या है ? यह बतलाते हैं :शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥ ६६ ॥ टीका-शास्त्रलक्षणमुपरिष्टाद् वक्ष्यते 'शान्ति' इत्यादौ । शासनात्-उपदेशदानात् त्राणाच्च शास्त्रम् । भगवतो मुखपङ्कजादर्थनिर्गमः, गणधरास्यकमलेभ्यः सूत्रनिर्गमः । उभयचैतद शास्त्रशब्दवाच्यम् । शास्त्रमेवागमः शास्त्रागमः. गणधरप्रभत्याचार्यपरम्परया आगत इति आगमः । शास्त्रागमाइते शास्त्रागमाद्विना नापरं हितमस्ति । न च शास्त्रलाभो भवत्येविनीतस्य, आचार्यादिशुश्रूषया विनीतेन शास्त्रं प्राप्यते । तस्माच्छास्त्रागमलाभमिच्छता शास्त्रागमलिप्सुना विनीतेन भवितव्यमिति ॥ ६६ ॥ १ शुक्रविन्दुरा--मु०। २ क्षयमुक्तमध्य--मु०। ३ समुदायाश्चला इति धन--मु०। ४ तत्र मु. प्रतो नास्ति । ५-त्यविनयस्य मुक
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy