________________
कारिका ३४-३५]
प्रशमरतिप्रकरणम् पञ्च नव व्यष्टाविंशतिकश्चतुःषट्रसप्तगुणभेदः ।
द्विपञ्चभेद इति सप्तनवतिभेदास्तथोत्तरतः ॥३५॥
टीका-ज्ञानावरणस्योत्तरप्रकृतिभेदाः पञ्च मतिज्ञानावरणादयः। दर्शनावरणस्योत्तरप्रकृतयो नव चक्षुर्दर्शनावरणादिचतुष्टयं निद्रादिपञ्चकञ्च । वेदनीयं द्विविधं सद्वेद्यमसद्वेद्यश्च । मोहोत्तरप्रकृतयोऽष्टाविंशतिः-सम्यक्त्वं मिथ्यात्वं सम्यग्मिथ्यात्वम्, अनन्तानुबान्धनश्चत्वारः क्रोधादयः, अप्रत्याख्यानावरणाश्चत्वारः, प्रत्याख्यानावरणाश्चत्वारः, संज्वलनाश्चत्वारः, हास्यं रतिररतिः भयं शोको जुगुप्सा स्त्रीवेदः पुनपुंसकवेदश्चेति । आयुषश्चतस्त्र उत्तरप्रकृतयःनारकायुः, तिर्यगायुः, मनुष्यायुः, देवायुरिति । षट् सप्तगुणा द्विचत्वारिंशद् भवन्ति । अतो नामकर्मण उत्तरप्रकृतयो द्विचत्वारिंशद्, भवन्ति । प्रतिपदपाठातुं श्रूयन्ते । तद्यथा-गतिनाम, जातिनाम, शरीरनाम, अङ्गोपाङ्गनाम, निर्माणनाम, बन्धननाम, संस्थाननाम, संघातनाम, संहनननाम, स्पर्शनाम, रसनाम, वर्णनाम, गन्धनाम, आनुपूर्वीनाम, अगुरुलघुनाम, उपघातनाम, पराघातनाम, आतपनाम, उद्योतनाम, उछासनाम, विहायोगतिनाम, प्रत्येकशरीरनाम, साधारणशरीरनाम, त्रसनाम, स्थावरनाम, शुभनाम, अशुभनाम, सुभगनाम, दुर्भगनाम, सुस्वरनाम, दुःस्वरनाम, सूक्ष्मनाम, वादरनाम, पर्याप्तनाम, अपर्याप्तनाम, स्थिरनाम, अस्थिरनाम, आदेय. नाम, अनादेयनाम, यशोनाम, अयशोनाम, तीर्थकरनाम चेति । गोत्रस्योत्तरप्रकृतिद्वयम् । उच्चैर्गोत्रं नीचैर्गोत्रञ्च । अन्तरायोत्तरप्रकृतयः पञ्च-दानान्तरायम्, लाभान्तरायम्, भोगान्तरयम्, उपभोगान्तरायम्, वीर्यान्तरायञ्चेति । एवमेषामष्टानामपि कर्मणामुत्तरप्रकृतयः सप्तनवतिर्भवन्तीति । नामकर्मणः पुनःश्चतुर्विधा गतिः इत्यादि नामभेदेन सप्तषष्ठिरुत्तरप्रकृतयो भवन्ति । शेषाणां पञ्चपञ्चाशत् । एतदुभयमेकीकृतं द्वाविंशत्युतरं प्रकृतिशतं भवति । तत्रापि विंशत्युत्तरप्रकृतिशतस्य बन्धः, सम्यग्मिथ्यात्वयोर्नास्ति बन्धः । मिथ्यात्वदलिकमेव विशुद्धं सत् सम्यक्त्वमुच्यते, सम्यग्मिथ्यात्वमपि दलविशुद्धं मिथ्यात्वमेवोच्यत इति ॥ ३५॥
__ अर्थ-पाँच, नौ, दो, अट्ठाईस, चार, बयालीस, दो और पाँच इस प्रकार उत्तरकर्मबन्धके ९७ मेद होते हैं।
भावार्थ--ज्ञानावरणकी उत्तरप्रकृतियाँ पाँच हैं:-प्रतिज्ञानावरण, श्रुतज्ञानावरण, अवधिज्ञानावरण, मनःपर्ययज्ञानावरण और केवलज्ञानावरण ।
__दर्शनावरणकी उत्तरप्रकृतियाँ नौ हैं:-चक्षुदर्शनावरण, अचक्षुदर्शनावरण, अवधिदर्शनावरण और केवलदर्शनावरण तथा निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला और स्त्यानगृद्धि ।
मोहकी उत्तरप्रकृतियाँ अट्ठाईस हैं:-सम्यक्त्व, मिथ्यात्व और सम्यमिथ्यात्व, अनन्तानुबन्धीक्रोधादि चार, अप्रत्याख्यानावरण चार, प्रत्याख्यानावरण चार, संज्वलन चार, हास्य, रति, अरति, भय, शोक, जुगुप्सा, पुंवेद, स्त्रीवेद और नपुंसकवेद ।
१ निद्रापञ्चकं च मु० । २ जुगुप्सा च, वेदः स्त्रीपुंनपुंसकवेदश्चेति मु०। ३ प्रतिपदपाठेऽनुश्यन्ते ब०। दर०वि०५०।