SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् [ द्वितीयोऽधिकारः, कषायाः टीका-- स खलु एवंविधः समुपजातकषायपरिणामः क्रोधादिभिः परामृष्टः । अतीव दुर्जयैरिति । नाल्पसत्त्वैर्जेतुं शक्याः कषाया इति दुर्जयाः, तैः परासृष्टः परिभूतः 'कषायवशंगतः ' इत्यर्थः । प्राप्नोति याननर्थान्- आपद्विशेषान् वधबन्धादीन् । कस्ताननर्थान् वचनमात्रेणापि व्यारव्यातुं समर्थः ? अनर्थभूयसि संसारे कियतोऽनर्थान् तान् नामग्राहं प्रतिपादयितुं शक्येरन् इति । २० अर्थ- - अत्यन्त दुर्जय क्रोध, मान, माया और लोभ कषायोंके आधीन हुआ जीव जिन जिन कष्टों को उठाता है, उन्हें कहने के लिए भी कौन समर्थ है ? भावार्थ - कमजोर प्राणी कषायोंको नहीं जीत सकते, अतः उन्हें दुर्जय कहा है। जो इन दुर्जय कषायों के चंगुल में फँस जाता है, उसकी कुशल नहीं है । वह जिन जिन कष्टोंको भोगता है, उन्हें कोई कह भी नहीं सकता । ठीक भी है, जब संसार अनर्थोंका घर है, तो उनमें से कितने अनर्थोके नाम लेक गिनाया जा सकता है ? " यद्यपि सकलानर्थानाख्यातुमशक्यं तथापि स्थूलतर कतिपयानथाख्यानमपायेभ्यो भव्यांश्छोटयत्येव ' इत्याह यद्यपि सब अनर्थोंको कहना शक्य नहीं है, तथापि कुछ मोटे-मोटे अनर्थोंको बतला देनेसे भव्य जीवोंकी उनसे रक्षा हो सकेगी, अतः उन्हें कहते हैं: क्रोधात् प्रीतिविनाशं मानाद् विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानिः सर्वगुणविनाशनं लोभात् ॥२५॥ टीका - क्रोधनं क्रोधः - आत्मनः परिणामो मोहकर्मोदयजनितः। तस्मादेवंविधात् परिणामादिहलो एव प्रीतिव्यवच्छेदो भवतीति प्रियतमैरपि साकम्, व्यवच्छिन्नायाञ्च प्रीतावनिर्वृतिरात्मनः । मानो गर्वस्तम्भः ' अहमेव ज्ञानी दाता शूरः ' इत्यादिक आत्मपरिणामः । तस्माद् विनयोपघातमाप्नोति । विनयमूलश्च धर्मः । देवगुरुसाधुवृद्धेषु यथायोग्यं विनयः कार्यः । स च उपजातगर्वपरिणामस्य विहन्यते विच्छिद्यते इति दोषः । शाठ्य परिणामो माया । तस्मात् प्रत्ययहानिः प्रत्ययो लोकव्यवहारप्रसिद्ध्या क्वचित् पुरुषे सत्यवादित्वं न्यासकप्रत्यर्पणञ्च इत्यादि । तद्धानिः -असत्यभाषणे शाठ्यपरिणामात् न्यासकापह्नवश्चेति । तृष्णा लोभपरिणाम आत्मनः । तस्माच्च सर्वगुणविनाशभाग् भवति । सर्वे च ते गुणाश्च क्षमामार्दवादयः, तान् लोभाभिभूतः समूलकाषं कषति । 'आप्नोति’ इति मध्यवर्तिना क्रियापदेन सर्वत्राभिसम्बन्धः ॥ २५ ॥ अर्थ - क्रोधसे प्रीतिका नाश होता है, मानसे विनयका घात होता है, मायाचारसे विश्वास जाता रहता है, और लोभसे सभी गुण नष्ट हो जाते हैं । ९ शक्यम् मु० । २ -यहानिं ཅུ॰ I
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy