________________
कारिका १९-२०-२१-२२-२३ ]
प्रशमरतिप्रकरणम्
'काः पुनः क्रियाः कुर्वन्नयमात्मा रागद्वेषवशगो भवति ? ' इति कारिकात्रयेण कुलकमाहकिन किन कामोंके करनेसे यह आत्मा राग और द्वेषके अधीन हो जाता है, तीन कारिकाओं से यह बतलाते हैं:—
रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चाश्रवमलबहुलार्तरेंरौद्र तीव्राभिसन्धानः ॥ २० ॥ कार्याकार्यविनिश्चयसंक्लेशविशुद्धिलक्षणैर्मूढः । आहार भयपरिग्रहमैथुन संज्ञाकलिग्रस्तः ॥ २१ ॥ क्लिष्टाष्टकर्मबन्धनबद्ध निकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुविधपरिवर्तनाभ्रान्तः ॥ २२ ॥ दुःखमहरूनिरन्तरगुरुभाराक्रान्तकर्षितः करुणः ।
विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥ २३ ॥
३ प्र०
C
टीका - पर्यायद्वारेणोक्तौ रागद्वेषौ ताभ्यां परिगतः - तादृशपरिणामयुक्तः । मिथ्यात्वं तत्त्वार्थाश्रद्धानम्, अभिगृहीता अनभिगृहीत - सन्देहभेदात् त्रिविधम् | अभिगृहीतं त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिशतानाम् । अनभिगृहीतम् अप्रतिपन्नदेवतापाखण्डरूपम् । सन्दिग्धम् एकस्याप्यक्षरस्य पदस्य वाऽप्यरोचनान्मिथ्यादर्शनम् । तेनोपहतत्वात् कलुषा दृष्टिः बुद्धिः ' मलिना ' इत्यर्थः । तया इत्थंभूतया दृशा बुद्ध्या कारणभूतया । पञ्चाश्रवाः पञ्चेन्द्रियाणि प्राणातिपातादीनि वा । आश्रवन्ति - आददते कर्म इति आश्रवाः । पञ्चाश्रवोपात्तकर्मणैव मलबहुल उपचितकर्मराशिः । आर्त चतुर्धा । अमनोज्ञविषयसंम्प्रयोगे सति तद्वियोगकतानो मनोनिरोधो ध्यानम् । तथाऽसद्वेदनायाः । तथा मनोज्ञविषयसंम्प्रयोगे तदविप्रयोगकतानश्चित्तनिरोधः तृतीयमार्तम् । चक्रवर्त्यादीनामृद्धिदर्शनात् ' ममाप्यमुष्य तपसः फलमेवंविधमेव स्यादन्यजन्मनि ' इति चित्तनिरोधश्चतुर्थमार्त निदानकरणमात्रमिति । ऋतमिति दुःखं संक्लेशः, तत्र भवमार्तमिति । रुद्रः क्रूरो नृशंसः, तस्यैद रौद्रम् । तदपि चतुर्धा । तत्र प्रथमं हिंसानुबन्धि : अनेनानेन च उपायेन गलकूटपाशयन्त्रादिना प्राणिनो व्यापाद्या इति । तत्रैकतानो मनोनिरोधो रौद्रं ध्यानम् । द्वितीयमनृतानुबन्धि-येन येन उपायेन परो वञ्च्यते कूटसाक्षिदानादिना तत्रैकतानं मनो रौद्रम् । तृतीयं स्तेयानुबन्धि - येन येन प्रकारेण परस्वमादीयते घुघुरुककर्तरिकाछेदकखोत्रखननादिना तत्रैकतानं मनो रौद्रम् । धनधान्यादिविषयसंरक्षणैकतानं मनो दिवानिश तुरीयं रौद्रम् । अभिसन्धानमभिसन्धिः अभिप्रायः । स च आर्तरौद्रध्यानpreciaः प्रकृष्टोऽभिसन्धिः । पञ्चाश्रवमलबहुलश्चासौ आर्तरौद्रतीव्राभिसन्धानश्चेति ॥ २० ॥
१ विशोधिल मु० | २ करुक्षात्र-ख
१७
मु० ।