________________
२२६ प्रशमरतिप्रकरणम्
[२५८-२८३ तपोऽनुष्ठानजन्यातुल्यविभूतिबन्धाभिभवं, यथा तीर्थकरतत्स्थानकं प्राप्तस्तथाऽसावपि भवति ॥ २५८ ॥ पृथक्त्ववितर्कसविचारं १ एकत्ववितर्कमविचारं २ कर्माष्टकमध्ये स्वामिनम् ॥ २५९॥ अथ क्षपकश्रेणिमारोहन मोहमुन्मूलयन् प्रथमं अनन्तानुबन्धिनां यावज्जीवावस्थायिकषायाणां, ततो मिथ्यात्वमोह एव गहन, ततोऽपि मिश्रं सम्यक्त्वं च मिथ्यात्वं च सम्यग्मिथ्यात्वं, एतावता मिश्रम् ॥ २६० ॥ सम्यक्त्वं क्षायोपशमिकपुञ्जरूपं, ततो द्वितीय ॥ २६१ ॥ हास्यरतीत्यादि उन्मूलनेऽ (लिते) ष्टाविंशतिविधेऽपि मोहे वीतरागो भवति ॥ २६२॥ सकल उद्घातितो ध्वस्तो मोहो येन सः, अनुपलक्ष्यो नाद्यापि स्वविषयां प्रतीतिमुत्पादयितुं प्रत्यलः, यथा राहुणा पूर्णचन्द्रो मुक्तोऽपि कियन्तं कालमनुपलक्ष्यो भवति, तथा क्षीममोह इति ॥२६३ ॥ यथा ज्वालिताग्निः काष्ठादि., एवं ध्यानाग्निः। अनन्तगुण तेजो यस्य । तपोऽनशनादि । त एव हविघृतम् ॥ २६४ ॥ अनुप्राप्तः परिगतः, जीवानां सर्वेषां कर्ममाजां दहेत् , यदि संक्रमः स्यात् ॥ २६५॥ संक्रमः सामस्त्येन कर्मप्रवेशः, अथ विभाग एकदेशोऽपि नाकामति ॥ २६६ ॥ शिरउद्गताया नाशाक्षयात् वृक्षस्य ध्रुवो निश्चयेन भवति ॥ २६७ ॥ क्षपितकषायत्वात् , अन्तर्मुहर्तकालं यावद्भूत्वा स्थित्वा, युगपदेककालं ज्ञानावरण ५ दर्शनावरण ४ अन्तरायाणां ५ क्षयमाप्य ॥ २६८ ॥ शाश्वतमनवरतभवनशीलत्वात् , अनन्तं क्षयाभावात् , केनापि तस्यातिशयितुमशक्यत्वात् , अनुपममपगतोमानत्वात् अनुत्तरमविद्यमानोत्तरत्वात् निरवशेषं परिपूर्णत्वेनोत्पत्तेः, संपूर्ण सकलज्ञेयग्राहित्वात् , अप्रतिहतं सदापि प्रतिघातकाभावात् ॥ २६९ ॥ कारल्यररिपूर्णे लोकालोके कृत्स्नवस्तु परिच्छेदित्वात् , गुणपर्यायवद्र्व्यं, सहभाविनो गुणाः, क्रमभाविनः पर्यायाः सर्वार्थ सर्वप्रकारः ।। २७० ॥ क्षीणघातिकर्मचतुष्कः भवोपग्राहिकर्मचतुष्कः वेदिता जघन्येन घटिकाद्वयम् ॥ २७१॥ तेनायुषाऽभिन्नं सदृशं क्षीरोदकवत् संस्थितचरमभव योग्यमायुः केवलिना दुर्भेदमनपवर्तनीयत्वात्, तथा वेदनीयं कर्म, तदुपग्रहं तेनायुषोपगृह्यते उपष्टभ्यते तदुपग्रहमनपवर्तनीयत्वात्, आयुःकर्मणा सह वेद्यत्वात् ॥ २७२ ॥ अधिकतरम् ॥ २७३ ॥ दंडमूर्ध्वाधश्चतुर्दशरज्ज्वात्मकं बाहल्यतः शरीरमानं कपाटं पूर्वापरलोकान्तव्यापिनं समस्तनिष्कूटव्यापनाल्लोकव्यापी ॥ २७४ ॥ अन्तराणि निष्कूटगतजीवप्रदेशान् ॥२७५॥ औदारिकशरीरयापकः प्रथमाष्टमसमययोदंडकरणसंहारलक्षणयोः कथितोऽसौ केवली ॥ २७६ ॥ स केवली करणत्रयशुद्धयोगवान् उचितं सत्यं यतियोग्यं योगं व्यापार युक्त प्रवर्तयति, संयोगो मोक्षं न गच्छतीति योगनिरोधमुपैति प्राप्नोति ॥ २७७ ॥ तत्र प्रथमं मनोयोगं मनःपर्याप्तिजनितव्यापारं शरीरप्रतिबद्धं मनोद्रव्यग्राहकं, तद्वियोजनार्थ पञ्चेन्द्रियस्य संज्ञिनो मनःपर्याप्त्या प्रथमसमयपर्याप्तकस्य यः सर्वजघन्यमनोयोगो मनोवर्गणाग्रहणशक्तेापारः तस्मात्स्वात्मनि असंख्येयगुणहान्या प्रतिसमयं निरुन्धन् सकलं निरुणद्धि, मनःपर्याप्त्या रहितो भवति ॥ २७८ ॥ द्वीन्द्रियः कपर्दिकादिजीवः साधारणः सूक्ष्मनिगोदादिस्तयोः क्रमेण वाकूपर्याप्तिकायपर्याप्तिभ्यां प्रथभसमयपर्याप्तकयोर्जघन्ययोगी क्रमेण वागुच्छासरूपौ ताभ्यामसंख्येयगुणहीनौ निरुणद्धि । सूक्ष्मकाययोगनिरोधे तु पनक उल्लिजीवस्तस्मादधोऽसंख्यगुणहीनः पर्याप्तिद्वयरहितो भवति ॥ २७९ ॥ सूक्ष्मकाययोगनिरोधकाले तृतीयशुक्लध्यानी भवति इति निरूपयन्नाहसूक्ष्मक्रियमप्रतिपातिकं ध्यायति । तदैव च शैलेशीं करोति स्वदेहविभागहीनात्मप्रदेशाघनीभवति, ततः परेण शेषकालेन निरुद्धसकलयोगः व्युपरतसकल क्रियमनिवृत्ति ध्यानं ध्यायन् चरमकर्माशं क्षपयति ॥ २८० ॥ चरमभवेऽन्तिममनुष्यजन्मनि, संस्थानं देहोच्छायप्रमाणं, यस्य सिद्धिमुपजिगमिषोः तस्मात्रिभागहीनं तृतीयांशेन न्यूनं, संस्थानावगाहनापरिमाणं करोति ॥ २८१ ॥ स भगवान् केवली, तस्यां शैलेश्यवस्थायां, मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तः निरुद्धसकलयोगक्रियः, अपरिमितनिर्जरः बहुकर्मक्षपणयुक्त आत्मा यस्य सः, संसारमहासमुद्रादुत्तीर्णः पारप्राप्त एव तिष्ठति ॥ २८२ ॥ ईषत् हस्वानां मनाग् ह्स्वाक्षराणां पञ्चको 'अइउऋल.' रूपः तस्योगोणे प्रोच्चारणं तावन्मात्रायां परिमाणतस्तत्तुल्यकालीयां शैलेशी एति गच्छति संयमवीर्याप्तबलः सर्वसंवरवीर्येण प्राप्तबला, विगताऽगता लेश्या भावरूपा यस्य सः॥ २८३ ॥ पूर्वरचितं प्रथममेव समुदघातावसरेऽवस्थापितं प्रकृतिशेष