SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२४ प्रशभरतिप्रकरणम् [१९७-२२० विभवन्ति । पारिणामिकौपशमिको पूर्वोक्तत्रिविधद्विविधौ भवतः, क्रमेण कर्मोदयनिरपेक्षसापेक्षौ च । कर्मक्षयाजात: शायिकः स नवविधः सम्यक्त्वचारित्रकेवलज्ञानकेवलदर्शनदानादिपञ्चलब्धिमेदतः । क्षायोपशमिकोऽष्टादशविधः, मत्यादिज्ञानचतुकमज्ञानत्रिक चक्षुरादिदर्शनत्रिक दानादिपञ्चलब्धयः सम्यक्त्वं चारित्रं देशविरतिश्चेति । षष्ठश्च सान्निपातिकः पूर्वोक्तभावनां द्विकादिसंयोगम: स च पञ्चदशभेदो ग्राह्यः अन्य एकादशभेदरूपस्याज्यो विरोधित्वात् ॥ १९७ ॥ एभिरौदयिका दिभिर्भावैः, आत्मा जीवः, स्थानं, गतिः, इन्द्रियाणि, संपदः, सुखं, दुःख, एतानि संप्राप्नोति । स्थीयते यत्र संसारे जघन्यादिस्थितिः स्थानमात्मनः स चात्मा समातेनाष्टविकल्पः जाना ॥ १९८॥ द्रव्यात्मा, कषायात्मा, योगात्मा, उपयोगात्मा, ज्ञानात्मा, दर्शनात्मा, चारित्रात्मा, वीर्यात्मा, मार्गणा परीक्षा चेति ॥ १९९ ॥ सांप्रतमेषां स्वरूपं प्रतिपादयति-जीवानामेकाक्षादीनां सर्वत्र जीवत्वान्वयात् , अजीवानां धर्मास्तिकायादीनामजीवस्यान्वय्यंशात् द्रव्यात्मा स्यादिति ११ कषायाः सन्ति येषां ते कषायिणः समोहास्तेषां सकषायिणां कषायैः सहैकत्वापत्तेः कषायात्मा २। योगा मनोवाकायन्यापारास्तदेकत्वपरिणत आत्मा स योगात्मा सयोगानां स्यात् ३। उपयोगो ज्ञानदर्शनव्यापारो शेषविषयस्तत्परिणत उपयोगात्मा सर्वजीवानां न त्वजीवानाम् ४ ॥२०॥ . सम्यग्दर्शनसंपन्नस्य तत्त्वार्थश्रद्धानभाजो यो ज्ञानपरिणामः स ज्ञानात्मा ५। चक्षुरादिदर्शनपरिणतानां दर्शनात्मा सर्वजीवानां भवति ६ । प्राणातिपातादिपापस्थानेभ्यो विरतानां तदाकारपरिणतानां चारित्रात्मा ७। वीर्य शक्तिः प्रवर्तनं तद्भाजां सर्वेषां संसारिणां वीर्यात्मा ८॥ २०१॥ एतेऽष्टौ विकल्पाः प्रतिपादितास्तत्र द्रव्यात्मानमाशंकते-आत्मेति ज्ञानदर्शनस्वभावश्चेतनः प्रतीतः, सोऽजीवविषयपुद्गलादिषु कथमात्मशब्दप्रबृत्तिरित्यत्रोच्यने-उप. चारो व्यवहारः स चाततीत्य त्मा भवति, व्युत्पत्तितः शब्दवाच्यः, सर्वद्रव्यविषयश्चैष न्याय इति नबविशेषेण सामान्यग्राहिणा नयेन, स्वरूपात् पररूपात् ॥ २०२॥ संयोगो रूपं अनेकेन भेदेन निर्देशः परीक्षणीयः, स्वतखं सहज स्वरूपं, दृष्टमुपलब्धं, लक्षणश्चिन्हरनेकभेदं समस्तमात्मनः ॥ २०३ ।। चित्तं चेयण सन्ना विन्नाणं धारणा य बद्धि य । ईहा मई विका जीवस्स उ लख्खणा एए॥१॥ उत्पत्तिविपत्तिस्थिरतालक्षणं यत्सर्वमपि तदस्ति अंगलीवत । एवं यन्नास्ति तदुत्पादादित्रयवन्न भवति खरश्रृंगवत् । अर्पितं विशेषितं जिनप्रवचनमुत्पन्नं । अनर्पित. मविशेषितं प्राकृतजनप्रणीतं, अतीतं सप्तविकल्पवचनम् ॥ २०४ ॥ कुशूलाद्यवयवावस्थायां घटाद्यभावः । घटोऽयमुत्पन्न इति तेनाकारेण तस्य घटस्य ॥ २०५ ॥ चशब्दादतीते यस्य पदार्थस्य तेन पदार्यन ॥ २०६॥ पञ्चाजीवद्रव्याणि रूपरसगन्धस्पर्शवन्ति ॥ २०७॥ न हि द्रव्यप्रदेशाः सन्ति, अन्ये च वर्णादयः, किंतु तमेव प्रदेश वर्णादिपुद्गलाः सन्निहिताः स्युः ॥ २०८ ॥ अनादिपारिणामिकं पुद्गलद्रव्यं सर्वभावेषु औषशमिकादिषु वर्तन्ते ।।२०९॥ विवृतपादस्थानस्थितो विवृतपादभ्राम्यमाणनराकार इति २१० तत्र लोके । अवाङ्मुखशरावाकारमधोलोकं उर्वलोकं शरावसंपुटाकारम् ॥ २११॥ जबृद्वीपादिभेदेन वैमानिक देवलोकाः १०, ग्रैवेयकाः ३, अनुत्तराः १, सिद्धि: १५ ॥ २१२॥ अवशेष समस्तलोकासंख्येयभागादिकं । एको जीवः पृथिव्यादिको व्यानोति । वाशब्दास्समस्तलोकं । केवली समुद्घातगः केवली ॥ २१३ ॥ धर्मास्तिकायादयस्त्रयोऽप्यसंख्येयप्रदेशाः । जीवद्रव्यमनन्तसमयं कर्तपर्यायशून्यानि ॥ २१४ ॥ गतिनिमित्तं स्थित्युपकारी ॥ २१५॥ सूक्ष्मता परिणामः स्कन्धानामेव तत्सद्भावेन ते इन्द्रियग्राह्याः साक्षात्, भेदो द्वयादिस्कंधानां पृथग्भवनं । स्पर्शादयः पुद्रलद्रव्यस्योपकाराः । शब्दपरिणामः पदलद्रव्याणामुपकारः कर्मपुद्गलानां बन्धः क्षीरनीरवत् , इन्द्रधनुरादिः ॥ २१६ ॥ विचेष्टितानि विविधव्यापारोक्षेपणाकुंचनादय उपग्रहः सौभाग्यादृष्यीकरणादिः जीवितदं क्षीरघुनादि मरणदं, विषास्त्रादि, संसारि जीवविषयाः ॥ २१७ ।। परिणमनं परिणामः । यथा वर्धतेऽङ्कुरो हीयते वा इत्यादिकालजनित उपकारः । इदं वर्तः इदं न वर्तते वर्तनायाः, परत्वमपरत्वं कालकृतं । पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः, पञ्चवर्षाद्दशवर्षः परः । शिक्षा लिप्यादिग्रहणासेवनादि ॥ २१८ ॥ द्विचत्वारिंशत्प्रकृतयः पुण्यं, द्वयशीतिः पापम् ।। २१९ ॥ आगमपूर्वी मनोकाक्कायव्यापारः तस्य योगस्व विपरीतता गुप्तिगोपनं स्थगितात्रवद्वारः ॥ २२० ॥ संवृतात्मनस्तपसा
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy