________________
१७५-१९६]
परिशिष्ट-१अवधरिः
२२३
क्षीरदध्यादिविकृतीनां यथाशक्तिपरिहारः । कायक्लेशः कायोत्सर्गोत्कटुकासनातापनादिः । संलीनः सिद्धान्तोपदेशेन इन्द्रियनोइन्द्रियमेदेन तद्भाषस्तत्ता । इन्द्रियसलीनः संहतेन्द्रियव्यापारः कूर्मवत् । नोइन्द्रियसंलीनो निःकषायमातरौद्ररहितं मनो धरन् परोपलक्ष्यं बाह्य तपः प्रोक्तं जिनादिभिः॥ १७५ ॥
प्रायश्चित्तमालोचनादिदशविधमतीचारमळप्रक्षालनार्थ । एकाग्रचित्तनिरोधो ध्यानं । तत्रातरौद्रे व्युदसनीये, धार्य झुक्ले द्वे ध्यातव्ये | व्यापृतो भावो वैयावृत्तं आचार्यादीनां दशानां मक्तपानवस्त्रादिभिरुपग्रहः शरीरशुश्रूषा चेति । विनीयते येनाष्टविधं कर्म स विनयो ज्ञानदर्शनचारित्रोपचारभेदात् । व्युत्सर्गेऽतिरिक्तोपकरणभक्तपानादेरुज्झनं । स्वाध्यायो वाचनादिः पञ्चविधः । अभ्यन्तरस्य मिथ्यादर्शनकषायादेरपाकरणात्तपोऽपि ॥ १७६ ।। दिव्यं भवनेशव्यन्तरज्योतिष्कविमानवासिदेवीनां संबन्धि तस्मात् मनोवाकायैः कृतकारितानुमतिभिः विरतिर्नवमेदा, औदारिकं मनुष्यतिर्यकूसेवन्धि, तत्रापि मनोवाकायः कृतकारितानुमतिभिश्च विरतिनवकं, तदेवं ब्रह्माष्टादशमेदं भवति ॥ १७७॥ आत्मन्येव व्यापारोऽध्यात्म कथमयमात्मा बध्यते कथं वा मुच्यत इति तद्विदन्तीत्यध्यात्मविदस्ते मूछों गार्थ निश्चयनयाभिप्रायेणात्मनः प्रतिविशिष्टपरिणामस्तां परिग्रहशब्दवाच्यतया कथयन्ति । यस्मादेवं तस्माद्वैराग्यमिच्छता आकिंचन्यं परों धर्मः न किंचिन्ममेति विगतमूर्छया स्थेयम् ॥ १७८ ॥ दशप्रकारक्षमादिधर्मस्यानुष्ठायिनस्तदासेविनः सदैवानवरतं शिवोपायसेविन: दृढानां वज्रभेदानां रूदानां चिरकालावस्थितिप्राप्तस्यैर्याणां घनानां बहलानां एवंविधानामपि ॥ १७९ ॥ माया लोभश्च मानः क्रोधश्च उद्धृताः सावष्टंभाः प्रबलाः प्रकृष्टसामर्थ्याः विनाशयति साधुरिति योगः ॥ १८०॥ व्यतिकरः संरकः, विरक्तता पूर्वमहर्षिसमाचीर्ण क्रियाकलापपरता, सद्भावा जीवादयः, एतानि धमस्येय. जनकानि ॥ १८१॥ आक्षिप्यन्ते धर्म प्रत्यभिमुखाः प्राणिनो यया सा आक्षेपणीं । विक्षिप्यन्ते परापरदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी । विमार्गा जैनमार्गादन्ये एकान्तमतावलंबिनस्तेषां बाधने समर्था पदरचना यस्याः सा । श्रोता चासो जनश्च तस्य श्रोत्रमनसोस्तयोः प्रसादजननी यथा जननी माता ॥ १८२ ॥ सम्बग्विवेच्यते नरकादिदुःखेम्यो भयं ग्राह्यते यया सा संवेजनी । निर्वेदं कामभोगेम्यो यया सा एवमेताम् ॥ १८३॥ यावत्कालं, अध्यात्मचिन्तापन्नस्य, न तेनापि परदोषगुणकीर्तनव्यापारेण किंचित्प्रयोजनं, तावत्कालं व्यग्रं व्यापृतम् ॥ १८४ ॥ आचारादिश्रुतपाठेऽपरेषां पाठने चाद्य मया किं कृतमित्यादि स्वात्मनि संचिन्तने ॥ १८५ ॥ शासूक् अनुशिष्टौ इति वाग्विधिविद्भिश्चतुर्दशपूर्वधरैः । विशेषेण नियतो निर्णीतः। दैङ् ङ् पालनायें । सर्वशब्दविदां संस्कृतप्राकृतादिशब्द. विज्ञानाम् ॥ १८६ ॥ राग द्वेषव्याप्तचित्तान् शिक्षयति विपरीतमशुभ मा कुरु अनवरतं शुभमविपरीतं कुरु इत्यादिना। तषा संत्रायते रक्षति सदाचारे । स्थितानिति शेषः । कुतो नरकादिदुःखात् ॥ १८७ ॥ शासनस्य शिक्षणस्य सामर्थ्य बलिष्ठतानेन संत्राणस्य पालनस्य बलेन च उभयेन सहितं यत्तन्छास्त्रमुच्यते सिद्धान्तः संसारभावमनुवदतां मोक्षं दर्शयतां सर्वविदामेतद्वचनम् ॥ १८८ ॥ बन्धः कर्मोंगदानं, मोक्षः कर्माभावः ॥ १८९॥ एतानि विवरीषुस्तावज्जीवानाह-असंख्येयप्रदेशात्मका: सकलोपयोगभाजः मुक्ताः सिद्धाः । संसारिणो भवस्थाः लक्षणतश्चिहत एकेन्द्रियादयो ज्ञातव्या इति लक्षणतोऽसाधारणस्वरूपतः ॥ १९०॥ एवमनेकप्रकाराणामेकको विधिरेकैको भेदोऽनन्तकालवर्तित्वादनन्तपर्यायः, अनन्ताः पर्याया धर्मा यस्य, अन्तर्मुहूर्तादारभ्यैकैकसमयवृद्धया त्रयस्त्रिंशत्सागरोग्माणि यावत् स्थितयः, अंगुलासंख्येयभागादारभ्य यावत्समस्तलोकावगाहः, ज्ञानं वस्तुविशेषावबोधो दर्शनं वस्तुसामान्यावबोधः, पर्यायास्तारतम्यकृतविशेषाः ॥ १९३ ॥ उपयोगश्चेतनाज्ञानदर्शनव्यापारः, साकारो विकल्परूपो ज्ञानोपयोगः, तद्विपरीतो दर्शनोपयोगः द्वयष्टचतुर्भेदः॥ १९४ ॥ ज्ञानं मत्यादि मतिश्रुतावधयो मिथ्यास्वोदयोपरक्तस्वभावा अज्ञानतां यान्ति ॥ १९५ ॥ औदयिकः, स च जीवोपात्तकर्मणामुदयो देवनारकादिपर्यायकारी, पारिणामिको जीवभव्याभव्यत्वादिरूपस्त्रिकालतदतिरूपः, उपशमः कर्माणां विपाकप्रदेशद्वयरूपोदयाभावस्तेन निवृत्त औपशमिकः सम्यक्त्वचारित्ररूपः, सम्यक्त्वज्ञानचारित्रादिरूपः क्षयोत्थः ॥ १९६ ॥ गतिर्नरकादिः ४ । कषायाः क्रोधादयः ४ । लिंगं स्त्रीनपुंसकं ३। मिथ्यात्वं । अज्ञानं, असंयतत्वं, असिद्धत्वं, श्याः ६, एते कर्मोदयादा