________________
२२२
प्रशमरतिप्रकरणम्
[१५१-१७४
- इष्टजनसंप्रयोगश्च ऋद्धिसंपञ्च विषयसुखसंपच्च संपच्छब्दः प्रत्येकं योज्यः ॥ १५१ ॥ अभिद्रुतेऽभिभूते ॥ १५२ ॥ आकालिकहितं सदा माविशुभाचरणं, एकेनैवात्मनाऽसहायेन स्वस्यार्थे ॥ १५३ ॥ स्वजनात् पित्रादेः, परिजनादासादेः, विभवात्कनकादेः, शरीरादेहाच, तेभ्यो भिन्नोऽहं, पृथक्कमणि यस्पनियता नक्तं देनमालोचिका, हिर्यस्मात् , शोककलिः कलिकालस्वरूपम् ॥ १५४ ॥ कर्पूरादीनां वपुःसंपर्कादशुचिकरणसामथ्यात् । शुक्रशोणिताद्याद्यकारणानामनपानायुत्तरकारणानामशुचित्वात् ॥ १५५ ॥ ससारभावनामाह-दुहिता सुता ॥१५६॥ स सम्यग्दृष्टिापि न विरतः प्राणातिपातात् सोऽपि, प्रमादवान् । मनोदंडाः ४ वाग्दंडा: ४ कायदंडा: ४ । तदेवं पञ्चदशप्रकारदंडरुचिः ततश्चायमर्थः प्रमादवान् यो जीवस्तस्य यथेते भेदा बहवस्तथाश्रवकर्माणि आश्रयस्थानानि भवन्तीति । आश्रवविधिरक्तस्तस्मिन्नाश्रवकर्मणि विषये तेषां मेदानां निग्रहे यत ॥ १५७ ।। अनुपादाने वृत्तिापारः । पाठान्तरे गुप्तिर्गोपनं । आत्मन्यारोपितंहितः । वरदैस्तीर्थकरादिभिः ॥ १५८ ॥ विशोषणालंघनात् । उपचितोऽपि पुष्टोऽपि । दोषोऽजीर्णात्मकः । तत्कर्मोपचितं बन्धादिभिः निरुद्धाश्रवद्वारो जीवः संवृतः ॥ १५९ ॥ सर्वत्र यत्र न जातं न मृतं मयेति । परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि द्रव्याणि । तेषां मनोवाकायादि. भिरुपयोगाः । न च तेस्तृप्त इति चिन्तयेत् ॥ १६० ॥ सुष्टु निदोषः ख्यातः क्षमादिलक्षमधर्मे सुखपरंपरया ॥ १६१॥ कल्पता नीरोगता। आयुर्दीर्घायुष्कं । श्रद्धा धर्मजिज्ञासा । कथकश्वाचार्यः । श्रवणं चाकर्णनं । एतेषु नवसु उत्तरोत्तरदुर्लभेषु सत्स्वपि । बोधिः सद्धर्मस्याख्यान । सम्यग्दर्शनं सम्यग्लाभो भवति ॥ १६२ ॥ अवाप्य अज्ञानात् गग त् पत्नीपुत्राद्यासक्तेः कापथविलोकनात् कुपथदर्शनात् एकैकनयानुसारिजिनप्रणीतागमवचनैकदेशस्वयुक्तिनिरपेचविचार. णाद्बहवो निहवा जज्ञिरे गौरववशात् ॥ १६३ ॥ रागप्रहाणमार्गो दुःखेनाधिगम्यः इन्द्रियादिसंपन्नः वैरिविलेन विरागमार्गप्राप्तौ विजयस्तेन प्राप्तो भवति, येन सर्वविरतिरवाप्नोति ॥ १६४ ॥ गणशब्दः प्रत्येकममितवध्यते, नेतारः तान् कषायान् पूर्व हतं सैन्यमनायकमिति न्यायात् ।। १६५ ।। संचिन्त्यालोच्य उदयनिमित्तं प्रादुर्भावकारणं उपशान्तेतः कारणं च कषायाणामुदयनिमित्तं परिहायमुपशान्तिहेतुरासेवनीयः, कथं त्रिकरणशुद्धं कायवाङ्मनोनिदोष, अपिरभ्युच्चये ।। इति भावनाधिकारः॥ १६६ ॥ शौचं संयम प्रति निलेपता अदत्तादानापरिग्रहो वा । चः समुच्चये। संयमः ससदशभेदः । त्यागो द्रव्यभावग्रन्थत्यजनम् ॥ १६७॥ क्षमाप्रधानः ॥ १६८॥ गुर्वभ्युत्थानाद्यधीना गुणा ज्ञानादयः । यस्मिन् पुरुषे ॥ १६९॥ यथाचेष्टितं तथारुवाति । तस्य च शुद्धिर्नास्ति ॥ १७०॥ द्रव्यं सचेतनादि शैक्षादि सचेतनादि-"अठारस पुरिसेसु वीर्स इत्थीसु दस नपुंसेसु । पव्वावणाअण रिहा अणहा पुण इथिआ चेव त्ति (अहवा विगलंगरूवाइंति)॥१॥" उपकरोति ज्ञानादीनां तदप्युद्गमादिशुद्धं शुचि । तथा भक्तपानादि तदुद्गमादिदोषरहितं शुचि । अन्यदशुचि । देहशुचि पुरीषाद्युत्सर्गपूर्वकं निलेपं निर्गन्धं देहमधिकृत्य प्रवृत्तं । भावशौचं निर्लोभताविधायि कार्य कर्तव्यम् ॥ १७१ ॥ १ स्त्रीनपुंसकं वाश्रित्यैष पुनर्निषेधस्तदत्यंतप्रतिषेधाय । आश्रवाः प्राणातिपातादयः कर्मादानहेतवस्तेभ्यो विरतीकरणं, पञ्चन्द्रियाणि स्पर्शनादीनि तेषां निरोधः । कषायाः क्रोधादयश्चत्वारस्तेषामुदयनिरोधः। दंडा मनोवाकायाख्याः, अभिद्रोहाभिमानेादिकरणं : दंडः, हिंसपुरुषानृतादिभाषणं वाग्दंडा, घावनवलगनप्लवनादिरूपः कायदंडः। एभ्यो निवृत्तिरेव संयमः। सप्तदश भेदा भवन्ति ॥ १७२ ॥ बान्धवाः स्वजनाः, धनं हिरण्यादि, पञ्चेन्द्रियविषयसुखं, एतेषां त्यागात् । भयभिहलोकादि सप्तविधं, विग्रहः शरीरं प्रतिकर्मणा त्यागात्साधुर्मुनिः त्यक्तात्मा परिहृतासंयमपरिणामः अष्टविधग्रन्थविजयप्रवृत्तः परिहताभिमानममत्वभावोऽरक्तद्विष्टस्त्यागी ॥१७३ ॥ न विसंवादनं यथादृश्यवस्तुभाषणं तेन योगः संबन्धः विविधन योगेन अजिह्मताऽकौटिल्यं, कायनान्यवेषधारितया विप्रतारयति, मनसाऽसत्यं प्रागालोच्य भाषते करोति वा वचनेन सद्भुतनिवासद्भूतोद्भावनं कटुकसावद्यादिभाषणं । एतत्सरिहाराच्चतुर्विध सत्यं जिनेन्द्रवचने न त्वन्यत्र ॥१७॥ सन चतर्थभक्तादि षण्मासान्तं तपः। तथा भक्तप्रत्याख्यानेगितमरणपादपोग्गमनादि । ऊनोदरता द्वात्रिंशत्कवलेभ्यो यथाशक्ति यदाहारमूनयति । वृत्तिर्वर्तनं भिक्षा तस्याः संक्षेपणं दत्तिमिर्भिक्षाभिश्च परिमितग्रहणं । रसत्यागः