________________
१३०-१५०]
परिशिष्ट-१ अवचूरिः
२२१
लोकवार्ता धर्मनिर्वाहपृच्छा , शरीरनिर्वाहचिन्तनं शोभनक्षान्त्यादिसद्धर्मचरणवार्ताः एतद्ययम मीष्टं लोकवातातच्छरीरवार्तायाः कारणम् ॥ १३०॥ आधार आश्रयो वर्तत इति शेषः धर्मचारिणां संयमिनां लोके जातमृतसूतकनिराकृतगृहगमनादि मधुमासादि च धर्मविरुद्धम् ॥ १३१ ॥ देहः शरीरं नैव अन्नपानवसनादिभिर्विना यायितुं शक्यः तान्यन्नपानवसनादिसाधनानि सद्धर्मस्य क्षमादेरविरोधाद्धर्मविरुद्धत्यागेनानुवर्तनीयः॥१३२॥ दोषेणानुसकारी भवति प्रत्युतापकारेण प्रवर्तने परो लोकः क्रुध्यति आत्मना ।। १३३ ॥ पिंडैषणाध्ययनमणितो निश्चयेन कल्प्यो ग्रह्योऽकल्प्यः परिहार्यः आगमे आदानासेवनयोनियतवृत्तेः तेन विधिगृहीताहारेण ॥ १३४ ॥ व्रणे गंडे लेपः अक्षस्य धुरा सैवोरांगं अम्बवहरे दित्यत्रापि योज्यं असंगा मनोवाकायेष्वसंगाः साधास्तेषां योग्य: क्रियानुष्ठानं तेषां मरः संघात:, स एव तन्मात्र, तस्य यात्रा निर्वाहस्तदर्थ धर्मानुष्ठान निहार्थ मित्यर्थः। पन्नगो यथा चर्वणवर्जितमेव गिलति एवं साधुरपि चिलातिपुत्रमारितधनश्रेष्ठिसुनामांसास्वादकपितृपुत्रादिवद्वा, यथा तैः शरीरस्य धारणार्थमेव तत्कृतं तथा साधुरपि ॥ १३५ ॥ विशिष्टतरास्वादं अगृद्धचित्तेन साधुनेति प्रक्रम: तद्विपरीतमविद्यमानास्वादमपि द्वेषरहितेन वृको यथा सरसं विरसं वा न विलोकयति, तद्वत्साधुनापि दारूपमधृतिना दारुतुल्यसमाधिना आस्वाद्य वस्तु स्वाद्य क्रिया ॥ १३६ ॥ कालमुष्णकालादि सिग्धेतरादि च क्षेत्रं सुमिक्षादिकं च । मात्रामल्यादिरूप सात्म्यं यद्यस्योपभुक्तं परिणतिमेति द्रव्याणां घृतगुडादीनां गुरुत्वं लघुत्वं । यद्वा येन द्रव्येणोपभुक्तेन गुणानां गौरवं शेषाणां लाघवं चात्मनः स्यात् । भोज्यं वस्तु ॥ १३७॥ अन्यदौपग्रहिकं दंडकादि उत्सर्गतः कल्प्यं कल्पनीयं, अपवादतो गाढालंबनेन अकल्प्यमपि ग्राह्यं घुतरदोषासेवन सद्धर्मदेहरक्षानिमित्तं कारणं तेनोक्तम् ॥ १३८॥ कल्प्याकल्प्यशुद्धाशुद्धविधिज्ञः, संविना ज्ञानक्रियायुक्ताः सहाया यस्य स्वभावविनीतः दूषणदूषितेऽपि रागादिरहितः ॥ १३९ ॥ धर्मोपकरणेन वस्त्रगत्रादिना धृतं वपुरस्य अलेपको लोभेन न स्पृश्यते ॥ १४०॥ अकृतगाद्यः धर्मोपकरणयुक्तोऽपि न स्नेहमुपगच्छति निग्रंथो वक्ष्यमाणपरिग्रहरहित इति ॥ १४१॥ ग्रन्थोऽष्टविधं कर्म सम्यक्त्वाद्विपरीतं प्राणातिपातादिभ्योऽनिवृत्तिः अशुभमनोवाकाया. अशटं मायारहितं सम्यगुद्यच्छति ॥ १४२ ॥ संवर्धनमुपष्टंभं वा व्यवहारे व्यापाररूपे, ज्ञानादीनामुग्ग्रहकारि, दोषाणां निग्रहकारि, यद्वस्तु तन्निश्चये कल्पनीयं, नाव शिष्टम् ॥ १४३ ॥ यद्वस्तु अन्नपानादि, दर्शनज्ञानाचाराहोरात्राभ्यन्तरानुष्ठेषव्यापाराणां विनाशकारि, यच्च प्रवचनकुत्साकारि मद्यमांसकन्दमूलाभोज्यगृहभिक्षाग्रहणादि सर्व कल्प्यमप्यकल्प्यम् ॥ १४४ ॥ कल्प्याकरुप्यत्वं शुद्धवस्तुष्वप्यनियतं, पुरुषाद्यपेक्षयेति शेषः, यथा विकारभाजां
मपि क्षीरादि निषिध्यते. नेतरेषां, नीरुजां भेषजं तदन्येषां कल्प्यतेऽशुद्धमपि ॥ १४५॥ देशोऽमाधुपरिचितक्षेत्र, कालो दुर्भिक्षादिः, पुरुषः प्रव्रजितराजादिः, अवस्था मान्द्यादिका, एतेषामयेऽकल्प्यमपि कल्प्यं, उपयोगशुद्धिपरिणामान् नैवैकान्तेन कल्प्यते कल्प्यं नैवेकान्तेन न कल्प्यतेऽकल्प्यम् ॥ १४६ ॥ यतिना साधुना तदेव चिन्तनीयं भाषणीयं कायेन कर्तव्यं, यदात्मनः परेषां उभयेषां बाधकं न भवति. अतीतादिसर्वकाले ॥१४७॥ सर्वेषु शब्दादिसर्वेन्द्रियार्थेषु श्रोत्रादीन्द्रियगणस्य गोचरतां प्राप्तेषु वैराग्यमार्गः सज्ज्ञान क्रियासेवनं तस्मिन्नन्तरायकारिषु परिसंख्यानमित्वरत्वनिःसारवाहितकारिपरिज्ञानं कार्य ध्येयम् । केन परं कामार्थधर्मेषु प्रधान नियतं शाश्वतं कार्य मोक्षप्राप्तिलक्षणमिच्छताऽभिलाषिणा ॥ १४८ ॥ भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयं किं तदनित्यत्वं, संसारे सर्वस्थानानामशाश्वतत्वं । अशरणत्वं जन्मजरामरणाभिभूतस्य नास्ति किंचिच्छरणं । एकत्वमेक एवाई। अभ्यत्वं स्वजनधन देहादिकेभ्योऽन्य एवाहं । अशुचित्वमाद्युत्तरकारणाशुचितामयस्य शरीरस्याशुचिभावादशुचित्वं । संहार इति माता भूत्वा भगिनीत्यादिभवभावना | आश्रवद्वाराणि विवृतानि कर्माश्रवःआप्रवद्वाररपिधानं संवरः ॥ १४९ ॥ कर्मणां क्षपणोपायो निरणं, लोकायामादिलोकविस्तरः शोभनोऽयं धर्मस्तत्त्वत: परमार्थतश्चिन्ता धर्मस्वाख्याततत्त्वचिन्ता: बोधेः सुदुर्लभत्वं चेति प्रकटम् ॥ १५० ॥