________________
२२० प्रशमरतिप्रकरणम्
[१०१-१२९ कर्मशब्देन गोत्रमेव तद्नमेव योनिविशेषाश्चतुरशीतिलक्षाः तदन्तरः कृतविभागम् ॥ ११ ॥ देशादीनां समृद्धिपर्यन्तानां विषमतां विलोक्य भवसंसरणे ॥ १०२ ॥ अनाहतगुणदोष एवंविधो जीवः पञ्चन्द्रियाणां निजनिजविषयगाद्धर्थ तेन विबलो गतशुभपरिणामः रागद्वेषोदबनियंत्रितः ॥ १०३॥ घटितव्यं चेष्टितव्यम् ॥ १०४॥ तत्कथं चेष्टितव्यमित्याह-अनिष्टयिषवाभिकांक्षिणा भोगना भोगासक्तेन सह वियोगो विषयाणां कथं स्यात् । वै इति प्रश्ने । आगमोऽभ्यसनीयः । अतिवाढं व्यग्रहृदयेनापि यथावद्विज्ञायैतानपायबहलानागमोड भ्यसनीयः ॥ १०५ ॥ औत्सुक्यकारकाः प्रकटोल्बणस्नेहरागाः निकष प्रान्ते बीभत्सादिभिर्बुहुलाः ॥ १०६ ।। दुःखान्ताः ॥ १०७॥ शाकोऽष्टादशो यत्र तीमनं मोदकाम्लकरसादि परिणतिसमये ॥ १०८॥ उपचारश्चाटुकर्मविनयप्रतिपत्तिः शयनादिः संभृनपिंडितरम्य कानि रतिकराणि अविच्छेदकारिणः ॥ १०९ ॥ देवनारकाणां नियतकालं, अनियतकालं मनुष्यतिर श्वाम् ॥ ११०॥ इष्टपरिणामाः सन्तोऽनिष्टपरिणामाः, अनिष्टपरिणामाः सन्तोऽभीष्टपरिणामाः। आलोचनीयः सर्वक्षेत्र वस्थाभावित्वात् । एवं चानवस्थितपरिणामविषयविरतो अनुग्रहो गुणयोगतः, उपलक्षणत्वाद्बहुगुणः, चित्तप्रसन्नता ॥ १११ ।। इत्यं गुणान् दोषरूपेण दोषांश्च गुणरूपेण यः पश्यति गुणदोष विपरीतोपलब्धिः प्रथमांगं विलोक्य परिरक्ष्यः॥ ११२॥ विधिना विशेयः॥ ११३॥ शस्त्ररिज्ञा नाम आद्यध्ययनार्थ संक्षेपेणाह-मातापित्रादिः गौरवाणां ऋद्यादीनां षड्जीवकाययतना पथमेऽध्ययने गौरवः त्यागो द्वितीये द्वाविंशतिपरिषहविजयस्तृतीये दृढसम्यक्त्वं चतुथें ॥ ११४॥ संसारोद्वेगः पञ्चमे, कर्मनिर्जरोगयः षष्ठे, वैयावृत्त्योद्यमः सप्तमे, तपोंविधिरष्टमे, योषितां त्यागः स्त्रीपरिहारो नवमे ॥ ११५ ॥ अंबरं वस्त्रं, भाजनं पात्रकादि तयोरेषणा तथावग्रहा देवेन्द्रादेः एते कीदृशाः शुद्धाः शुद्धिमन्तः ॥ ११६ ॥ स्थानं कायोत्सर्गरूपं, निषद्या स्वाध्यायभूमिः, त्यागः शब्दरूपयोररागः क्रियाशब्दः सर्वत्र परक्रिया निषेधः, प्रयत्नतस्तपस्यतो निःप्रतिकर्मणः परो यदुपकरोति संस्करोति तदयुक्तं, अन्योऽन्यक्रिया सापि निष्प्रतिकर्मवपुषो न युज्यते ॥ ११७॥ साध्वाचार: पूर्वोक्ताध्ययनकथितस्वरूपः खलु निश्चयेन अयं प्रत्यक्षः ॥ ११८॥ भावना वासनाभ्यासः षड्जीवनिकाययतनादिका तदाचरणेन च गुप्तहृदयस्य च मूलोत्तग्गुणैर्गुप्तमनस्कतदनुष्ठानव्यग्रस्य । किं भवतीत्याह-न तदस्ति कालविवरं यत्र कालच्छिद्रेऽमिभूयते प्रमादकषायविकथादिभिः ॥ ११९ ॥ स्वल्पकालेनैव विपरिणामधर्माः कुत्सितपरिणामधर्मा अन्यथाभवनस्वभावाः, मां मरणधर्मिणो मनुष्यास्तेषां ऋद्धिसमुदया धनधान्यहिरण्यस्वर्णा देविभूतिसमूहा अनित्याः संयोगाः पुत्रपत्नीप्रभृतिसंबन्धाः विषयोगावसानाः शोकोत्पादका भवन्ति, ततो न किंचिद्विषयाभिलाषेण ॥ १२१ ।। भोगजनितसुखैः क्षणविनश्वरैः प्रभूमीतिभृतैः कांक्षितैरभिरषितैः शब्दादिविषयाधीनः किन किंचित्प्रयोजनमेभिः । तस्मात्तेष्वभिलाषमसहाय नित्यमात्यन्तिकं, अभयमविद्यमानभीतिक, आत्मस्थं स्वायत्तं प्रशमसुख मध्यस्थस्यारक्तद्विष्टस्योपशान्तकषायस्थ यच्छम तदेवंविधं तत्रोद्यतो भव ॥ १२२ ॥ इन्द्रयग्रामस्य शब्दादिविषयस्य लन्धुमिच्छतः पिये कर्तव्ये यावत्प्रयासः क्रियते तावत्तस्यैवाक्षसमूहस्य निग्रहे वरतरं बहुगुणं ऋजुचित्तेन उद्यमः कृतः ॥ १२३ ।। सरागेण मोहयुक्तेन विषयाभिलाषतः प्राप्यं सुखं तस्मादनन्तकोटिगुणितं मूल्यं विनाऽनायासेन वीतरागः प्रशमसुखमाप्नोति ।। १२४ ॥ इष्टस्था (ष्टा) वियोगकांक्षानिष्टविप्रयोगकांक्षोत्पन्नं दुःखं सरागः प्राप्नोति, न वीतरागः ।। १२५ ॥
एतेषु हास्यादि मेदेषु निभृतः स्वस्थस्तस्य यत्सुखं, तद्रागिणां कुतः ॥ १२६ ॥ एवंगुणयुक्तोऽप केबलमनुपशान्तोऽशमितविषयकषायः तं गुणं निरुत्सुकत्वं रत्नत्रय्युपचयरूपं नाप्नोति ॥ १२७॥ १ ना पुरुषः चक्रवर्तिवासुदेवादिस्तस्य महेन्द्रस्य च तादृशं सुखं नास्ति यादृशं प्रशमस्थितस्य ॥ १२८ ॥ स्वजनपरजनविषयं चिन्तां दारिद्यधनाढ्यदौर्भाग्यसौभाग्वादिरूपां विहाय । आत्मपरिशानमनादौ संसारे परिम्रमन्नयमात्मा सुखदुःखान्यनुभवन्नपि न तृप्तः, सोऽधुना कथमेभिस्तृप्तो भवेत्तदधुना यथा संसारे बहसंकटेऽयं न भ्रमति तथा प्रयत्नो मया कार्य इत्यात्मज्ञानचिन्तन एवाभिरतः परकार्यविमुखो जितमदनादिसर्वदोषः सुखमास्ते स्वस्थ उपद्रवरहितस्तिष्ठति । निर्जरः निर्गताऽपेता ज़रा हानिःसाच प्रस्तावात्प्रशमामृतस्य यस्यासो निर्जरः ॥ १२९ ।। १निर्जर इति वा कृषिवाणिज्यादिचिन्तनं