SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ७५-१००] परिशिष्ट-१ अवचूरिः २१९ .. विनयाद्यपेतं विगतं मनो येषां ते । त्रुटिमात्रमणुमात्रप्रायं विषयः शब्दादिस्तत्संगादजरामरवत् सिद्धवनिरुद्विमा निर्भयाः ॥ ऐहिकसुखमानिनः रसलांपटयं सातं सुख ऋद्धिविभवो रसा मधुरत्वादयः, एतेषु गौरवं रसलांग्टथं तस्माद्धेतोर्वर्तमानसुखदर्शिनः अतीवानुकलविषयोपभोगपरा: ॥ ७६ ॥ जात्या अवितथा हेतवो दृष्टान्ताश्चरितकलितोदाहरणानि तैः प्रसिद्धं, अजरमपरापरप्रदानेऽप्यक्षीणं उपनीतं दीयमानं तेनैव बहुमन्यते रसायनमपि अविरुद्धं नित्यानित्ययोरेकत्र वस्तुनि सहावस्थानेऽपि विरोधरहितत्वं न कस्यापि भयं करोतीत्यभयकरं क्षुद्रोपद्रवनाशि ॥ ७७ ॥ प्रकुपितपित्तधातुत्वाद्विपरीतबुद्धिस्सस्य क्षीरं कटुकं भवति ॥ ७८ ॥ यदपि सुदुःसहपरिषहे न्द्रयनिरोधसंभवत्संतापादादौ वटुक तथापि निश्चयं पर्यन्तकाले मधुरमनेककल्याणयोगाद्रमणीयं भव्यसत्त्वानुग्रहाय गणधरादिभिरभिहित पथ्यं हितं । उदवृत्ताः स्वच्छन्दचारिणः ॥ ७९ ॥ जातिर्मात्रान्वयः, कुलं पितृममुद्भवं, रूपं प्रतीतं, बलं शारीर: प्राणः, लाभः प्रार्थितार्थप्राप्तिः, बुद्धिरौत्पत्तिक्यादिः, वाल्लभ्यकं प्रियत्वं, श्रुतमागमः क्लीवा असत्वाः ॥ ८० ॥ भवभ्रमणे ज्ञात्वा को नाम विद्वान् जातिमदमालवेत् ॥ ८१॥ अनेकान् जातिविशेषान् जन्मोत्पादान् इन्द्रियनिर्वृत्तिरिन्द्रियनिष्पत्तिः पूर्वकारणं येषाम् ॥ ८२ ॥ शीलमाचारः, शेषाणि प्रतीतानि, ननु नियमेनेव ॥८३ ॥ रूपबलश्रुतबुद्धिविभवादयो गुणास्तैरलंकृतस्य सुशीलस्य कुलमदेन प्रयोजनं कार्य न विद्यते ॥८४॥ चयो वृद्धिरपचयो हानिस्तौ यस्य । रोगजरापाश्रयिणो रोगजराधारस्य एवं शुक्रादिसंपर्कनिष्पन्ने देहे कों मदावकाशोऽस्ति ? अपि तु नास्त्येव ॥ ८५ ॥ सर्वदा संस्कर्तव्ये चर्मण्यसृजाऽवता स्थगिते । कलुवं मूत्रपुरीपरुधिरमेदोमज्जस्नायुप्रभृति तेन व्याप्ते । निश्चयेन विनाशधर्मों यस्यास्ति ॥ ८६ ॥ अतितीव्रज्वरशूलविसूचिकादिवेदनातः सन् तरुणबलोऽपि क्षणेन विगतबलत्वमुपैति । सुसंस्कारात्प्रणीताहाराभ्यवहारादसायनदेवताराधनसामर्थ्याद्वीर्यान्तरायकर्मक्षयोपशमाद्वेति ॥ ८७ ॥ अनियतों भावः सत्ता यस्य कदाचिद्भवति कदाचिन्न भवति विज्ञाय मरणबळे प्राप्ते शरीरबलं द्रविण बलं च न क्रमते प्रतिक्रियायै ॥८८॥ क्षयोपशमालाभो भवति, लाभान्तरायकर्मोदयाच न लभते किंचित् , नित्यानित्यो दीनतागवा ॥ ८९ ॥ परो दाता गृहस्थादिस्तस्य दानान्तरायक्षयोंपशमोत्था शक्तिः स्वशक्त्यनुरूपं ददाति । दातुर्यदि चेतःप्रसन्नता भवति, साधु प्रति गुणानुरागः उपयोगः वस्वाहारादिना ॥ ९॥ ग्रहणं बहूनामपि पृथक् पृथग्वदतामपि पृथक् पृथक् शन्दोपलब्धिः , उग्राहणं संस्कृतगद्यपद्यशब्दार्थाभिधानं, परस्मै इति शेषः, नवकृतयोऽभिनवं स्वयमेवप्रकरणाध्यनादिकं करोति, विचारणा सूइमेषु पदार्यध्वात्मकर्मबन्धमोक्षादिषु युक्त्यनुसारिणीजिज्ञासादि, अर्थावधारणमाचार्यादिवचनविनिर्गतस्य शब्दार्थस्य सक्रदेव ग्रहणं, न द्वित्रिवारोच्चारणादिप्रयासः, आदिशब्दाद्धारणा परिगृह्यते । बुद्धेरंगानि शुश्रूषादीनि तेषां विधिविधानं आगमन प्रतिपादनं तस्य विधेर्विकल्पास्तेषु कियत्सु अनन्तः पर्यायवृद्धास्ते क्षयोपशमजनितबुद्धि विशेषाः परस्परम . नन्तः पर्यायवद्धाः सर्वद्रव्यविषयत्वान्मतिश्रुतयोरित्येवं बुद्धथंगविकल्पेष्वनन्त मेदैर्वृद्धेषु सत्सु ॥ ९१ ॥ पूर्वपुरुषा गणधरप्रभृतयश्चतुर्दशपूर्वधरादयो यावदेकादशांगविदवसानाः, सिंहा इव सिंहाः, परीषहकषायकुरंगप्रतिहननात् तेषां विज्ञानातिशयःविज्ञानप्रकर्षः स एव सागरः समुद्रो विस्तीर्णबहुत्वात् , अनन्तस्य भाव आंनन्त्यं श्रुत्वा विभाव्य मांप्रता वार्तमानिकाः॥ ९२॥ कुत्सितं प्रियं भाषणं चटुकर्म, उपकारो निमित्तं यस्य चटुकर्मणः निमित्तं माता पितृसंबन्धादिकं कृत्वा ।। ९३ ॥ परजनप्रसन्नताजनितेन तेन स्पृश्यते ॥ ९४ ॥ श्रुतपर्याया मेदा अनन्तगुणादयोऽ संख्यभवपरिच्छेदाः उपर्युपरि पश्यतः सर्वे दरिद्रमिति विदित्वा विकरणं विक्रियां कृतशेषश्रुतदाननिषेधमिति शेषः वैक्रियसिंहरूपनिर्माणं ॥ ९५ ॥ संपकैश्च संसर्ग आचार्यादिबहुश्रुतैः सह उद्यमश्च प्रोत्साहः मूलगुणा उत्तरगुणास्तेषा निष्पादकं श्रुतशानं लब्ध्वा ॥ ९६ ॥ " ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते"॥९७॥ जात्यादिमदमत्तः शुचिपिशाचाभिधानद्विज इव दुःखभाग्भवति ॥ ९८॥ जात्यादीनां बीज (दिबीज ) विनायोद्यतेन आत्मोत्कर्षः परदूषणोद्घोषणं च ॥ ९९॥ परतिरस्कारः, भवे भवे, कोटिरानन्त्यसूचकः ॥१०॥
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy