________________
२१८
प्रशमरतिप्रकरणम्
[३३-७४
युती रागद्वेषौ ॥३३॥ मूलप्रकृतिसंवन्धीः ॥ ३४॥ तस्याः प्रकृतेर्बन्धोदययोर्विशेषोऽविनाशेनावस्थितिःस्थिति: अनुभागो रसः प्रदेशो दलसंचयः ॥ ३६॥ तेषु बन्धभेदेषु चतुर्यु प्रदेशबन्धो योगान्मनोवाकायव्यापारात् तस्य प्रदेशस्थस्य कर्मणः ॥३७॥ वर्णकानां बन्धो हृढीकरणं तस्मिन् श्लेष इव ॥ ३८ ॥ न गतिर्भवगतिमूल बीजं यस्या इन्द्रियविषया निवृत्तिः ॥ ३९ ॥ दुःखकारणं कर्म तया तया आदत्ते ॥ ४० ॥ कलास्त्यस्मिन्निति कलं ग्रामरागरीत्या युक्तं, रिभितं घोलनासारं, योषिद्विभूषण नूपुरादि, श्रोत्रेन्द्रियेऽवबद्धं हृदयं येन ॥ ४१ ।। सविकारा गतिः नयनोत्थं निरीक्षितं देहसन्निवेशः प्रेरितः ॥ ४२ ॥ स्नानमङ्गप्रक्षालनं चूर्ण वर्तित्रानुलेपिनी वतीनां समूहो वार्तिकं चन्दनादिभिः स्नानादिभिर्गन्धभ्रमितमाक्षिप्तं मनोऽस्येति सः॥ ४३ ॥ खंडशर्करादिः स एव विषयो रसनायास्तस्मिन्नासक्त आत्मा यस्य । गलो लोहमयोऽङ्कुशो यंत्रं जालं पाशो वालादिमयः तित्तिरादिग्रहणहेतुस्तैबद्धो वशीकृतः ॥४४॥ आसनं मसूरकादि, संबाधनं विश्रामणा, सुरतं मैथुनासेवा, अनुलेपनं कुंकुमादि, प्रियाय ध्रुवनादिः मोहितमतिः ॥ ४५ ॥ स्पर्शः शिष्टा विवेकिनः परलोकपथनिपुणास्तेषामिष्टाः दृष्टिचेष्टाः । दृष्टिः सन्मार्गोपदेशनं चेष्टाः क्रियाः दोषेष्वनियम ग्राहितानीन्द्रियाणि यैः ॥ ४६॥ इन्द्रिययोग्यो विषयो भावः येनाक्षाणीन्द्रियाणि तृप्तिं प्राप्नुवन्ति अनेकस्मिन्मार्ग प्रकर्षेण लीनानि ॥४८॥ विषयो रूपादिःपरिणामवशात् मृतकलेवरादिवशादशुभः स्यात् कचवरादिः अशुभोऽपि वर्यः स्याध्धूग्नादिना ॥४९॥ कारणवशेन निमित्त सामर्थ्येन यत् यत् प्रयोजनमर्थों जायते, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण तमर्थ शुभमशुभ चिन्तयति, यथा शत्रुघ्रं विषं पितृघ्नं च ।। ५०॥
शब्दादिः स्वरोचनेन परितोषमाधत्ते, स्वमत्या विकल्पो द्विषादिपरिणामजनितविकल्पनं तत्राभिरता आसक्ताः ॥५१॥ कदाचिद्वेषवशतः समुपजातरागस्य कदाचिद्रागवशात् निश्चयतः परमार्थतस्तद्रागद्वेषकारणमेव ॥५२॥ रागद्वेषकृतप्रतिघातस्य ॥ ५३ ॥ इन्द्रियव्यापारे शब्दादिप्रवर्तने भव्यमभव्यं वा करोति परिणाम रागयुतः द्वेषयुतः स आत्मनो भावः कर्मबन्धस्य तस्य तस्य निमित्तं आत्मनो जीवस्य भवति ॥ ५४ ॥ मोहोऽज्ञानं, तत्त्वार्थाश्रद्धानं मिथ्यात्वं, आश्रवेभ्योऽनिवृत्तिरविरतिः रागादिभिर्विकथादिप्रमादमनःप्रभृतियोगयुतैः ॥ ५६ ॥ एतेषां दोषाणां संचयस्य जालमित्र जालं दुःखहेतुत्वात् आमूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥ ५८ ॥ रागद्वेष दिजालस्य मूलकारणं जीवस्येति शेषः ॥ ५९ ॥ नवकोटयो ३ हनन ३ पचन ३ क्रयणानां स्वयं करणकारणानुमतिभिः त्रिरूपास्ताभिरुद्गमादिभिश्च शुद्धं यदुञ्छमात्रं भैक्ष्यं तेन यात्राधिकारात् संयमयात्रा तया निर्वाहो यस्य शुद्धतमाहारोपधिपात्रग्रहणतत्परस्येति भावार्थः ॥ ६०॥ सर्वज्ञभाषितजीवादिपदार्थपरमार्थस्वरूपभावनाशीलस्य जीवाजीवाधार भूतलोकावगतस्वरूपस्य वक्ष्यमाणाष्टादशसहस्रशीलाङ्गवारणकृतप्रतिज्ञस्य ॥६१॥ दर्शनमोहनीयकर्मक्षयोपशमेन दर्शनशुद्धिरूपमनुप्राप्तस्य धर्माध्यवसाये अध्यवसायस्य अन्योन्यं स्वदर्शनपरदर्शनापेक्षयोत्तरोत्तरविशेषं पश्यतो जिनागमे ॥ ६२ ॥ त्रस्तस्य स्वहितायें आत्मपथ्यमोक्षप्रयोजने आभिमुख्यन रता बद्धा प्रीतिर्मतिर्यस्य ॥ ६३ ॥ अनन्तसंख्यायाः सूचका भवकोटयः ॥ ६४॥ समुदया धनधान्यादिनिचयाः। धर्मे क्षान्त्यादिके तदारोग्यादि लब्ध्वा प्राप्य हितकार्ये शास्त्राध्ययनादौ ॥६५॥ शास्त्रमिह लौकिकं । अथवा शास्त्रणामागमो गमनं तल्लाभमिच्छता ॥६६॥ कुलमुग्रादि, वचनं माधुर्यादिगुणमत् , शेषाणि प्रतीतानि, संपच्छब्दः प्रत्येकं योज्यते ॥ ६७ ॥
आगमव्रतमूल निर्णय प्रति निकषः कषपट्टसमानः परीक्षास्थानमित्यर्थः। वि विशेषेण नीतः प्राप्तो विनयो वेन स तथा ॥ ६८ ॥ हितकांक्षिणा मोक्षाभिलाषिणा शिष्येण ॥६९॥ अपथ्यसमाचरणं तदेव धर्मस्तदपनोदकर्ता गुरुमुखमलयाचलोद्तचन्दनरसस्पर्शः ॥ ७०॥ शुश्रूषा श्रोतुमिच्छा पदाचार्य उपदिशति तत्सम्यक् श्रोति क्रिययोपयोग च नयति ॥ ७२ ॥ तपसोऽनशनादेवलं सामर्थ्य संवरफलं निर्जरा कर्मपरिसाटिः ॥ ७३ ॥ योगनिरोधः शैलेशीप्राप्तिरूपः अतो विनयएव कार्यः॥ ७४ ॥