SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०८ रायचन्द्रजैनशास्त्रमालायाम् [ द्वाविंशाधिकारः, अन्तफलाभिधानम् तत्त्वार्थश्रद्धानम् । शीलमुत्तरगुणाः । व्रतग्रहणादणुव्रतानि । अनित्यादिका द्वादश भावनाः । एवं दर्शनादिमिराभिरश्चितं वासितं मनो यस्य स भवति अभिरञ्जितमनस्कः ॥ ३०२ ॥ स्थूलबधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिग्वतमिह देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ टीका--स्थूलात् प्राणात्पाताद्विरतिः प्रथममणुव्रतम् । स्थूला वादरा प्राणिनो ये तेभ्यो विरतिस्तेषामवधः । न सूक्ष्मेभ्यो विरतिः पृथिव्यादिकायम्यो विरतिः। अथवा संकल्पजः स्थूलस्तस्माद्विरतिः। संकल्पं हृदि व्यवस्थाप्य व्यापादयामीति स्थूलप्राणातिपातस्माद्विरतिः प्रथममणुव्रतम् । न पुनरारंभजाद्विरतिरिति । स्थूलमनृतं यन्निरोधलक्षणपूर्वकमादित्यमण्डलाधिरोहणे सत्यन्यथावृत्तमन्यथा भाषते, तस्माद्विरति न परिहासादिभाषणात । चौर्यमदत्तस्यादानं स्थूलम्, यस्मिन्नपट्टले चौर्यमितिहव्यपदिश्यते, तत्स्थूलम्, तस्माद्विरतिः । परदारनिवृतिव्रतस्य तु परपरिगृहीतस्त्रीपरिहारः, न तु वेश्यापरिहारः । रत्यरतिभ्यां वर्जिस्त्यक्तः । सततं सर्वदा रतिर्विषयेषु प्रीतिः, अरतिरुद्वेगो व्रतपरिपालनादिकियास्वितिः वास्त्वादिष्विच्छा । तस्याश्च परिमाणं व्रतमेतावन्ति वास्तूनि क्षेत्राणि हिरण्यसुवर्णमेतावत् तथा धनं धान्यं कटाहादि चोपस्करजातं सर्व परिमितं धामिति । परिमाणादुपर्युपरि स्थूलं तस्माद्विरतिरणुव्रतम् । साक्षादनुपाल्यमयि शेषं व्रतग्रहणादाक्षिप्तं दृष्टव्यम् । रात्रिभोजनविरतिश्च यथाशक्तीति । दिग्व्रतं चतसृषु दिक्षु उर्ध्वमधश्च गमनपरिमाणमेतावद् गन्तव्यं न परत इति परतो गमनाद्विरतिः। चतुर्मास्यादिषु स गृह्णति । तथा देशावकाशिकं व्रतं प्रतिदिवसमध्ये एतावती मर्यादा मम गमनस्यति तस्यैव सकृदगृहीतस्य दिग्व्रतस्य देशेऽवकाशं कल्पयति देशावकाशिकं व्रतम् । अनर्थदण्डविरतिव्रतं प्रयोजनाभावोऽनर्थः विना प्रयोजनेनात्मानं दण्डयति अग्निशस्त्रादिप्रदानादिनाऽनेकभेदेन तस्माद्विरतिव्रतम् ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिना पात्रेषु विनियोज्यम् ॥ ३०४॥ टीका-सामायिक प्रतिक्रमणम् । अथवा चैत्यायतनसाधुसन्निधौ वा यावदास्ते तावत् सामायिकं करोति-" करोमि भदन्त सामायिकम् सादा योग प्रत्याख्यामि, यावन्नियमं भगवदर्हद्विम्बसाधून वा पर्युपासे द्विविधं त्रिविधेनेत्याह ।" तथा पौषधवतं कृत्वा १-दर्शनामिर-ब०। २-शिकाम-फ० ब०। ३-तृतीव्र-ब०। ४-एतावपि वा-फ । ५-यथाशक्तीति' इत्यारभ्य स गृह्णाति' इतिपर्यन्तः पाठः-ब. प्रतौ नास्ति । ६-नास्ति पदमिदं-फ. पुस्तके।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy