________________
रायचन्द्रजैनशास्त्रमालायाम्
[ अष्टमोऽधिकारः, भावना
भावार्थ - लकड़ी को यदि वसूलासे छीलो तो वह द्वेष नहीं करती, और यदि पुष्प चन्दन वगैरह से उसकी पूजा करो तो वह राग नहीं करती। उसी प्रकार साधु सचेतन होनेपर भी इष्ट और अनिष्ट अन्न-पान में राग-द्वेष नहीं करता । इस तरह राग और द्वेष रहित मनसे किया हुआ भोजन ही साधुका उपयुक्त भोजन होता है ।
'तच्च भोजनं कालाद्यपेक्षमभ्यवह्नियमाणं नाजीर्णादिदोषकारि भवति' इति दर्शयतिकालादिक की अपेक्षासे ग्रहण किया हुआ भोजन, अजीर्ण वगैरह रोगोंको उत्पन्न नहीं करता, यह बतलाते हैं --
९४
कालं क्षेत्रं मात्रां स्वात्म्यं द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्यं भुके किं भेषजैस्तस्य ॥ १३७ ॥
टीका - भोक्त्रा कालोsपेक्षणीयः ग्रीष्मवर्षाशिशिरभेदः । ग्रीष्मे वहुपानकं पातव्यमतः स्वल्पतरं भुङ्क्ते येन भक्तं पानं नाऽक्लेशेनैव जीर्यते । तथा वर्षासु साधारणं भक्तं पानं च यथोदरषड्भाग ऊनो भवति तथा भुङ्क्ते । शिशिरे बहुलमेव भुङ्क्ते स्वल्पतरमुदकमापिबति । तथा क्षेत्रं सापेक्ष्यम्, रूक्षं स्निग्धं शिशिरं च त्रिधा क्षेत्रम् । तत्र क्षे सुराष्ट्रादौ बहुभक्तभोजी भवति । स्निग्धे जलवहुलविषये मात्रभाम्यवहारं करोति यथा सुजरं भवति । तथा शिशिर क्षेत्रे शीतबहुले कश्मीरादौ अन्नपरिपाकः सुखो भवति यथा तथाऽभ्यहर्तव्यम् । मात्रा निजानिबलापेक्षा । प्रमाणयुक्तोऽप्याहारः कस्यचिन्न क्षमते, अतः तादृशी मात्रा कर्तव्या या सुजरा भवति । ' स्वात्म्य' इति स्वभावः । कस्यचिदत्यन्तस्निग्ध एवाहारः सुखं परिणमते, कस्यचिद्रक्षः, कस्यचिन्मध्यः । विरुद्धद्रव्यसम्पर्कोऽपि कस्यचित् सुखावहः, कस्यचिदसुखकरः, स्वात्म्यस्यानेकप्रकारत्वात् । द्रव्यं माहिषं दधि क्षीरं वा गुरु, लघु तु गव्यं दधि पयो वा । एवमन्येषामपि द्रव्याणां गौरवं लाघवं च ग्खण्डखाद्यदध्योदनादीनां विज्ञाय स्वबलं च वातप्रकोपादि व्याधिदूषितमदूषितं च ज्ञात्वा योऽभ्यवहार्यमन्नादि भुङ्क्ते ' किं भेषजैस्तस्य' इति न किञ्चिदौषधैस्तस्य प्रयोजनम् । 'अनवकाशानि हि तत्र भेषजानि ' इत्यर्थः ॥ १३७ ॥
अर्थ – काल, क्षेत्र, मात्रा, स्वभाव, द्रव्यका भारीपना और हल्कापना तथा अपनी शक्तिको जानकर जो भोजन करता है, उसे ओषधिसे क्या प्रयोजन है ?
भावार्थ - भोक्ताको गर्मी, सर्दी, और वर्षा - कालका ध्यान रखकर भोजन करना चाहिए । गर्मी में पानी अधिक पीना चाहिए और भोजन कम होना चाहिए। जिससे भोजन सरलता से हजम हो सके। वर्षा ऋतु में साधारण खान-पान इतना करना चाहिए, जितने से पेटका छठा भाग खाली रह सक 1 सर्दी में ठंड अधिक पड़ती है, अतः पानी कम पीना चाहिए। तथा भोक्ताको रुखे चिकने और ठंडे प्रदेशका ध्यान रखकर भोजन करना चाहिए। चिकने जलप्रधान प्रदेशमें परिमित भोजन करना चाहिए।
१- सात्म्यं-फ०, ब० । २-बहु बहुतरं चात्तमेव - ब० । ३- त्रसा - ब० । ४- त्रक्षेत्रे सु-ब० । ५बहुवि-ब० । ६–यो वा खण्ड- फ०, ब० ।