________________
અષ્ટક પ્રકરણ
૧-મહાદેવ અષ્ટક
સૂર્યથી પ્રકાશિત કરી શકાય એવું આકાશમંડલ ક્યાં ? અને આકાશ મંડળને પ્રકાશિત કરવાના ઉદ્યમવાળો આગિયો ક્યાં ? બુદ્ધિશાળીઓથી સમજી શકાય એવું શ્રી હરિભદ્રસૂરિનું સુવચન ક્યાં ? અને શ્રી रिम सूरिन। क्यनने शत ४२१॥ भाटे तत्पर बनेको हुँ यi ? (3)
તો પણ મેં ગુરુચરણોની ભક્તિથી જેટલા પ્રમાણમાં નિશ્ચય ર્યો છે તેટલા પ્રમાણમાં હું કહું છું કે જે લોકો મારાથી પણ અતિશય મંદબુદ્ધિવાળા છે તેમને આ ટીકાથી ઘણો ઉપકાર થાય. (૪)
॥१॥ प्रथमं महादेवाष्टकम् ॥ इह हि सुगृहीतनामधेयो हरिभद्राचार्यो मिथ्यादृशो विप्रवदमानानसत्कर्तव्यतया स्वयं नष्टानसदुपदेशदानेन च परानपि नाशयतो विलोक्य, तदुभयमप्युपकर्तृ द्वात्रिंशदधिकारशासनरूपं शास्त्रं चिकीर्षुस्तस्य च श्रेयोभूततया विनसम्भवे तद्विनिवर्तनाय असाधारणगुणगणमणिनिकरमकराकरायमाणपुरुषविशेषविषयनमस्कारकरणरूपं भावमङ्गलमुपकल्पयस्तथा 'सकलपरलोकप्रयोजनेषु प्रवचनादेव प्रायः प्रवृत्तिः परिदृश्यते, तच्च पुरुषविशेषप्रणीतमेव प्रमाणं, पुरुषविशेषविषये च विप्रतिपद्यन्ते कुप्रवचनानुगामिनो जना' इति तद्विप्रतिपत्तिव्यपोहनाय तत्स्वरूपमुपदर्शयन्महादेवाष्टकं तावदादावाह । महादेवस्य च तात्त्विकं महत्त्वमखिलजनासुलभस्वभावेभ्योऽतिशयेभ्यस्ते चापायापगमज्ञानवचनसुखप्रभृतयस्तत्र चापायापगमातिशयपूर्वकत्वाच्छेषाणां तमेव तावत्तस्य श्लोकद्वयेनाह
यस्य संक्लेशजननो, रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु, शमेन्धनदवानलः ॥१॥ न च मोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत् ।
त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥२॥ वृत्तिः-'यस्य' देवताविशेषस्य, 'रागो नास्त्येव महादेवः स उच्यत' इति सम्बन्धः । तत्र यस्य कस्याप्यनिर्धारिताभिधानस्य पारगतसुगतहरिहरहिरण्यगर्भादेर्देवस्येति सामान्यनिर्देशः । एतेन च माध्यस्थ्यमात्मनो दर्शितम् । आह च "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥१॥" माध्यस्थ्यदर्शनेन चात्मीयवचसि श्रोतॄणामुपादेयताबुद्धिरुपाहिता, यस्मादनाग्रहादेव वक्तुः सकाशात्तत्त्वाधिगमो भवति । यदाह-"आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥१॥" रागस्याव्यभिचरितस्वरूपप्रतिपादनायाह'सम्' इति सामस्त्येन, क्लेशनं विबाधनम्, "क्लिश विबाधन" इति वचनात्, संक्लेशः आत्मनः स्वाभाविकस्वास्थ्यबाधनम्, तं जनयति उत्पादयतीति 'संक्लेशजननः' ।।
अथ व्यभिचार एव विशेषणमर्थवद्भवति, न चासंक्लेशजननोऽपि रागोऽस्ति येनासौ व्यवच्छिद्यते, न चाधिकृतमहादेवस्य प्रकारान्तरेणापि रागो विवक्ष्यत इति विशेषणमनर्थकम् । नैवम् । अविदितस्वभावस्य भावस्य स्वभावाविर्भावनाय विशेषणस्याभिमतत्वाद् यथा “परमाणुरप्रदेश'' इति ।