________________
અષ્ટક પ્રકરણ
૧-મહાદેવ અષ્ટક
कोऽसावित्याह-जीवस्वरूपोपरञ्जनाद् ‘रागो' ऽभिष्वङ्गलक्षणः । 'नास्त्येव' न विद्यत एव, इदं चावधारणं रागांशस्याप्यभावप्रतिपादनार्थम् । स चोपशान्तमोहावस्थायामुदयापेक्षया कदाचिद्रागभेदापेक्षया वा स्यात्-अतः सत्ताद्यपेक्षयापि(प्ये)तदव्यवच्छेदार्थमाह । 'सर्वथा' सर्वैः प्रकारैर्बयोदयसत्तालक्षणैविषयरागस्नेहरागदृष्टिरागरूपैर्द्रव्यक्षेत्रकालभावाभिष्वङ्गस्वभावैर्वेति ।
तथा, 'न च' नैव 'द्वेषोऽपि' अप्रीतिलक्षणो, न केवलं रागो नास्त्येव द्वेषोपि नास्त्येव सर्वथेत्यपि शब्दार्थः । केष्वित्याह-'सत्त्वेषु' प्राणिषु, सत्त्वग्रहणं च प्रायः संव्यवहाराहप्राणिनां प्राणिविषयस्यैव क्रोधमानात्मकद्वेषस्य दर्शनादप्राणिषु पुनरसौ महामोहविजृम्भितमेव । उक्तं च-"किं एत्तो कट्ठयरं, मूढो जं थाणुगंमि अप्फिडिओ । थाणुस्स तस्स रुसइ, न अप्पणो दुप्पउत्तस्स' ॥१॥" अत एव रागस्य विषयविशेषानभिधानेनोपादानं कृतम् । तस्य संव्यवहाराहप्राणिनामपि । जीवाजीवविषयतयोपलम्भात् । जीवाजीवविषयत्वादेव महाविषयतया प्राधान्याद् रागस्यादावुपादानम् ।
नवप्रीतिमात्रलक्षणस्य द्वेषस्यानिष्टस्पर्शादिविषयेष्वप्राणिष्वपि दर्शनाद्देवताविशेषस्य च सर्वविषयस्य द्वेषाभावस्य विवक्षितत्वान्न युक्तं सत्त्वग्रहणमिति । नैवम्, अनेन हि प्रतिपन्थ्यप्रतिपन्थिरूपप्राणिविषयद्वेषाभावप्रतिपादनेन निखिलजनविदितसपत्ननिपातनादिफलद्वेषवतीनां पराभिमतदेवतानां महत्त्वाभावस्य वक्तुमिष्टत्वात् यस्य च प्रतिपन्थ्यप्रतिपस्थिष्वपि प्राणिष्वपि द्वेषो नास्ति तस्याप्राणिषु सुतरामसौ न संभवतीति ।
किंस्वरूपो द्वेष इत्याह-'शम' उपशमः क्षान्त्यादिभावः, स एव 'इन्धनं' दाहं दादि, तस्य दहने 'दवानल' इव दवानलो वन्याग्निः 'शमेन्धनदवानलः' । इदमपि स्वरूपविशेषणं न तु व्यवच्छेदकं, सर्वस्यापि द्वेषस्यैवंरूपत्वादिति ।
तथा 'न च' नैव मोहोऽपि मूढताऽपि, न केवलं रागो द्वेषश्च नास्ति सर्वथा, मोहोऽपि नास्त्येव सर्वथा यस्य, स महादेव इति प्रकृतम् । मोहमेव (मोहं च) स्वरूपतो विशेषयन्नाह-'सत्' शोभनं यथावत्पदार्थपरिच्छेदितया तच्च त'ज्ञान' च बोधः सज्ञानम्, सतां वा सद्भूतानामर्थानां ज्ञानं सज्ञानम्, तच्छादयितुमावरीतुं शीलं धर्मो वा यस्य स 'सज्ञानच्छादनः' । सप्ज्ञानच्छादकत्वादेव 'अशुद्धं' कल्मषमलकलङ्काङ्कितम् ‘वृत्तं' वर्तनं चेष्टितं, करोति शरीरिणां विदधाति यः सोऽ'शुद्धवृत्तकृत् ।
किंभूतोऽसो महादेव इत्याह-त्रयो लोकाः समाहृताः त्रिलोकं त्रिभुवनं तत्र ख्यातः प्रसिद्धो महिमा महत्त्वं यस्य स 'त्रिलोकख्यातमहिमा' । त्रिलोकख्यातमहिमता च भवत्येव निखिलनरनिकरनाकिनिकायनायकलोककदर्थनसमर्थरागादिरिपुनिकरनिराकरणसमर्थस्य सकलपुरुषचक्रचूडामणेः पुरुषविशेषस्य । यदाह"रागद्वेषमहामोहैः, कदर्थितजगज्जनैः । नाभिभूतं मनो यस्य, महिम्ना तस्य कः समः ॥१॥" दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुति (मोहमद) कान्तिस्वप्नगतिः" इति वचनाद् दिव्यते स्तूयते इति देवः स्तवनीयः, स च प्रेक्षावतामसाधारणगुणगणमाणिक्यमकरनिकेतनायमानत्वेन महानेव स्तवनीय इति महांश्चासौ १. किमेतस्मात्कष्टतरं मूढो यत्स्थाणावास्फालितः । स्थाणवे तस्मै रुष्यति नात्मने दुष्पयुक्ताय ॥१॥