________________
श्रामण्योपनिषद् प्राणेभ्योऽपि प्रियं मत्वा, पाल्यं तत् सत्यमेव हि। परतां परिगम्यास्य, यत् परेऽपि ह्यदो जगुः ॥८॥
अश्वमेघसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेघसहस्राद्धि, सत्यमेव विशिष्यते ॥९॥
(शार्दूलविक्रीडितम्) विश्वास्यं रमणीयमेव जगतः, प्रह्लादसम्प्रापकमादेयत्ववचश्चमत्कृतिकरी-सल्लब्धिविश्राणकम् । सौधर्मादिविमानमानमपि नो, मातुं क्षमं यत्फलम्, सत्यं तत् परिणम्यतां मम हृदि,
सच्चन्दनामोदवत् ॥१०॥
॥शौचम्॥ शौचशालिसमुत्कृष्टो, मलक्लिन्नकलेवरः । सुगुणः सोऽगुणं शौचं, हरिकेशी ददातु वः ॥१॥
१. पद्मपुराणे ॥५-१८-४०३॥