________________
श्रामण्योपनिषद् मा भूत् प्रीतिप्रनाशादि, वैरानुबन्धनं तथा । अग्निशर्मादिवच्चापि, संसारानन्तता मम ॥४॥
इति क्रोधविपाकानां, चिन्तनेन क्षमापरः । विपाकक्षान्तिभेदान्तः-प्रविष्टोऽयं विचक्षणः ॥५॥
॥ युग्मम् ॥ क्रोधवतेस्तदह्नाय, शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव, संयमारामसारणिः ॥६॥
इत्यादिवच आलोच्य, क्षमायां शूरता हि या । वचनक्षान्तिसञ्ज्ञा सा, तुरीया तु क्षमाविधा ॥७॥
॥ युग्मम् ॥ सहजैव क्षमा या तु, शुद्धा चन्दनगन्धवत् । अनलस्योष्णतावद्वा, नीरस्य शीततेव वा ॥८॥
अपि महोपसर्गेषु, यया क्षान्तिनियोगतः । सा स्याद् धर्मोत्तरा क्षान्तिः, सर्वोत्तमा मता मतैः ।।
१. योगशास्त्रे ॥४-११॥