________________
श्रामण्योपनिषद्
व्याख्या यत् क्रियते श्रुतस्य यतये यद्दीयते पुस्तकं स्थानं संयमसाधनादिकमपि प्रीत्या सदाचारिणा । स त्यागो वपुरादिनिर्ममतया नो किंचनास्ते यतेराकिंचन्यमिदं च संसृतिहरो धर्मः सतां संमतः ॥ १०१ ॥ विमोहा मोक्षाय स्वहितनिरताश्चारुचरिताः
१०१
गृहादि त्यक्त्वा ये विदधति तपस्तेऽपि विरलाः । तपस्यन्तोऽन्यस्मिन्नपि यमिनि शास्त्रादि ददतः सहायाः स्युर्ये ते जगति यतयो दुर्लभतरा: परं मत्वा सर्वं परिहृतमशेषं श्रुतविदा वपुःपुस्ताद्यास्ते तदपि निकटं चेदिति मतिः । ममत्वाभावे तत्सदपि न सदन्यत्र घटते जिनेन्द्राज्ञाभङ्गो भवति च हठात्कल्मषमृषेः यत्संगाधारमेतच्चलति लघु च यत्तीक्ष्णदुःखौघधारं मृत्पिण्डीभूतभूतं कृतबहुविकृतिभ्रान्ति संसारचक्रम् | ता नित्यं यन्मुमुक्षुर्यतिरमलमति: शान्तमोहः प्रपश्येज्जामीः पुत्रीः सवित्रीरिव हरिणदृशस्तत्परं ब्रह्मचर्यम् ॥१०४॥ अविरतमिह तावत्पुण्यभाजो मनुष्याः हृदि विरचितरागाः कामिनीनां वसन्ति । कथमपि न पुनस्ता जातु येषां तदङ्घ्री प्रतिदिनमतिनम्रास्तेऽपि नित्यं स्तुवन्ति
॥१०२॥
॥१०३॥
॥१०५॥