________________
१००
श्रामण्योपनिषद् यत्परदारार्थादिषु जन्तुषु निःस्पृहमहिंसकं चेतः । दुश्छेद्यान्तर्मलहत्तदेव शौचं परं नान्यत्
॥९४॥ गङ्गासागरपुष्करादिषु सदा तीर्थेषु सर्वेष्वपि स्नातस्यापि न जायते तनुभृतः प्रायो विशुद्धिः परा । मिथ्यात्वादिमलीमसं यदि मनो बाह्येऽतिशुद्धोदकैधौतः किं बहुशोऽपि शुद्ध्यति सुरापूरप्रपूर्णो घटः ॥९५॥ जन्तुकृपादितमनसः समितिषु साधोः प्रवर्तमानस्य । प्राणेन्द्रियपरिहारं संयममाहुर्महामुनयः
॥९६॥ मानुष्यं किल दुर्लभं भवभृतस्तत्रापि जात्यादयस्तेष्वेवाप्तवचः श्रुतिः स्थितिरतस्तस्याश्च दृग्बोधने । प्राप्ते ते अतिनिर्मले अपि परं स्यातां न येनोज्झिते स्वर्मोक्षकफलप्रदे स च कथं न श्लाघ्यते संयमः ॥९७॥ कर्ममलविलयहेतोर्बोधदृशा तप्यते तपः प्रोक्तम् । तद् द्वेधा द्वादशधा जन्माम्बुधियानपात्रमिदम् ॥९८॥ कषायविषयोद्भटप्रचुरतस्करोघो हठात् तप:सुभटताडितो विघटते यतो दुर्जयः । अतो हि निरुपद्रवश्चरति तेन धर्मश्रिया यतिः समुपलक्षितः पथि विमुक्तिपुर्याः सुखम् ॥१९॥ मिथ्यात्वादेर्यदिह भविता दुःखमुग्रं तपोभ्यो जातं तस्मादुदककणिकैकेव सर्वाब्धिनीरात् । स्तोकं तेन प्रभवमखिलं कृच्छ्रलब्धे नरत्वे यद्येतर्हि स्खलति तदहो का क्षतिर्जीव ते स्यात् ॥१००॥