________________
श्रामण्योपनिषद् धर्माङ्गमेतदिह मार्दवनामधेयं जात्यादिगर्वपरिहारमुशन्ति सन्तः । तद्धार्यते किमुत बोधदृशा समस्तं स्वप्नेन्द्रजालसदृशं जगदीक्षमाणैः
॥८७॥ कास्था सद्मनि सुन्दरेऽपि परितो दन्दह्यमानाग्निभिः कायादौ तु जरादिभिः प्रतिदिनं गच्छत्यवस्थान्तरम् । इत्यालोचयतो हृदि प्रशमिनः शश्वद्विवेकोज्ज्वले गर्वस्यावसरः कुतोऽत्र घटते भावेषु सर्वेष्वपि ॥८८॥ हृदि यत्तद्वाचि बहिः फलति तदेवार्जवं भवत्येतत् । धर्मो निकृतिरधर्मो द्वाविह सुरसद्मनरकपथौ ॥८९।। मायित्वं कुरुते कृतं सकृदपि च्छायाविघातं गुणेष्वाजातेर्यमिनोऽजितेष्विह गुरुक्लेशैः समादिष्वलम् । सर्वे तत्र यदासतेऽतिनिभृताः क्रोधादयस्तत्त्वतस्तत्पापं बत येन दुर्गतिपथे जीवश्चिरं भ्राम्यति ॥९०॥ स्वपरहितमेव मुनिभिर्मितममृतसमं सदैव सत्यं च । वक्तव्यं वचनमथ प्रविधेयं धीधनैर्मोनम् ॥११॥ सति सन्ति व्रतान्येव सूनृते वचसि स्थिते । भवत्याराधिता सद्भिर्जगत्पूज्या च भारती ॥९२॥ आस्तामेतदमुत्र सूनृतवचाः कालेन यल्लप्स्यते सद्भूपत्वसुरत्वसंसृतिसरित्पाराप्तिमुख्यं फलम् । यत्प्राप्नोति यशः शशाङ्कविशदं शिष्टेषु यन्मान्यतां तत्साधुत्वमिहैव जन्मनि परं तत्केन संवर्ण्यते ॥९३॥
.