________________
श्रामण्योपनिषद् (परिशिष्ट-७)
पद्मनन्दि-पञ्चविंशतिः अमलविपुलवित्तेरुत्तमा सा क्षमादौ शिवपथपथिकानां सत्सहायत्वमेति
॥८२॥ श्रामण्यपुण्यतरुरुच्चगुणौघशाखापत्रप्रसूननिचितोऽपि फलान्यदत्त्वा । याति क्षयं क्षणत एव घनोग्रकोपदावानलात् त्यजत तं यतयो ऽतिदूरम्
॥८३॥ तिष्ठामो वयमुज्ज्वलेन मनसा रागादिदोषोज्झिताः लोकः किंचिदपि स्वकीयहृदये स्वेच्छाचरो मन्यताम् । साध्या शुद्धिरिहात्मनः शमवतामत्रापरेण द्विषा मित्रेणापि किमु स्वचेष्टिफलं स्वार्थः स्वयं लप्स्यते ॥८४॥ दोषानाघुष्य लोके मम भवतु सुखी दुर्जनश्चेद्धनार्थी तत्सर्वस्वं गृहीत्वा रिपुरथ सहसा जीवितं स्थानमन्यः । मध्यस्थस्त्वेवमेवाखिलमिह जगज्जायतां सौख्यराशिः मत्तो माभदसौख्यं कथमपि भविनः कस्यचित्पत्करोमि ॥८५॥ किं जानासि न वीतरागमखिलत्रैलोक्यचूडामणिं किं तद्धर्म समाश्रितं न भवता किं वा न लोको जडः । मिथ्याग्भिरसज्जनैरपटुभिः किंचित्कृतोपद्रवात् यत्कर्मार्जनहेतुमस्थिरतया बाधां मनो मन्यसे ॥८६॥