________________
पञ्चसूत्रोपनिषद् मिथ्याऽस्तु तत् - इत्यादि । गुरोः पुरस्ताद्यथावस्थिततन्निवेदनं तद्गर्हा चेत्येतद् द्वयमप्रतिहतं कर्मानुबन्धापनयने । स्वोदयकाले नवकर्मबन्धापादनानुगुणा कर्मनिहितशक्तिस्तदनुबन्धः | नाश्यत एष दुष्कृतगर्हया ।
(३) तृतीय उपायः सुकृताऽऽसेवना | सा चार्हदादीनामुत्तमप्रवृत्तेः श्रेष्ठगुणानां चानुमोदनाया आसेवनरूपा । ननु कथं सुकृतपदेनात्रानुमोदनग्रहणमिति चेत् ? सविवेकतया निर्दम्भ उचितादरसहिते नियतभाविनि चानुमोदने सति तस्याऽखण्डशुभाध्यवसायसाधकत्वनियमादिति गृहाण | न ह्यन्या शुभाऽपि प्रवृत्तिर्नियमेन तादृशभावसिद्धौ प्रत्यला । अनुमोदने त्वावश्यको मनोवाक्कायप्रसन्नभावः । अतो महदेतत् कुशलाशयनिबन्धनमिति परिभावनीयम् । कृतकारितानुमतिभेदभिन्ने हि पुण्यपापे एवमुत्तमानुष्ठानानुमोदनमप्याऽऽसेवनविशेषः, पुनितानुष्ठानविशेष चेदम्, अतो हि हृदये विशुद्धभावोदयः । ___उपायत्रितयमिदमौचित्यसातत्यसत्कारविधिपुरस्सरं सेव्यमानं परिपाकं वितनोति तथाभव्यत्वस्य, रोगपरिपाककृदौषधवत् । ततश्च पाककर्मविनाशः, ततोऽपि भावसारं शुद्धधर्मप्रतिपत्तिः, ततोऽपि संसरोच्छित्तिः । यत उक्तसाधनत्रितयादवश्यं दुःखमयदुःखफलकदुःखानुबन्धिसंसारविनाशात्मकस्येष्टसाध्यस्य सिद्धिः, अत आसेव्यमिदं मोक्षार्थिना प्रशस्तप्रणिधानैकाग्र्यभावविशुद्धिसचिवम् । सदा-सर्वकालम्, सुप्रणिधानम् - शोभनेन प्रणिधानेन, नात्र कालो नियम्यते, किन्तु सुप्रणिधानम्, यदा यदा क्रियते, तदा तदा सुप्रणिधानं