________________
___४९
पञ्चसूत्रोपनिषद् तत्सहितेषु मुदिता च ।
एतदर्थमपि प्रतिज्ञाग्रहणपुरस्सरं कर्त्तव्यं तदनुपालनम् । अभिग्रहो हि धर्मसातत्यभावप्रयोजकः | विधातव्यः सद्दर्शनादि लक्षणशुद्धधर्मभावस्पर्शः । मिथ्यात्वमोहनीयांदिपापकर्मविशिष्टक्षयस्तत्स्पर्शप्रयोजकः । क्षयोऽप्येष यथा न पुनरुन्मज्जनं स्यात्तेषां कर्मणाम्, तथाविधो द्रष्टव्यः । तादृशक्षये प्रयोजकपञ्चकमिदम् - तथाभव्यत्वं कालो नियतिः कर्म पुरुषकारश्च । अत्र तथाभव्यत्वपरिपाकेण सञ्जायत इतरकारणाऽऽनुकूल्यम् । ___ भव्यत्वमिति सामान्यतो मुक्तिगमनयोग्यत्वम् । तथाभव्यत्वं तदेव विशिष्टम् । सर्वभव्यजीवेषु सामान्यतः समानेऽपि भव्यत्वस्वभावे नैककाले भवति मुक्तिः, तत्र तथाभव्यत्वं नियामकम् । एतच्च साध्यपरिपाकम्, व्याधिवत् । अत उपायत स्तत्परिपाकपुरस्सरं तदन्तो मुक्तिप्राप्तिश्च भावारोग्यस्थानीया भवति, तदिदमुपायत्रयम् - . (१) अर्हत्सिद्धसाधुसर्वज्ञोक्तधर्मशरणगमनमाद्यम् । न ह्येतदन्यत्किमपि शरणं परमार्थतः, भावारिभयानिवारकत्वात् । अपि च नान्यशरणमैकान्तिकमात्यन्तिकं वा, सदातनत्वविरहादपरशरणापेक्षाऽविगमाच्च । उक्त चतुष्टयशरणं तु पारमार्थिकम्, ऐकान्तिकत्वादात्यन्तिकत्वाच्च । एतच्च प्रयोजकं क्रमेण भवाभावसम्पादने ।
(२) द्वितीय उपायो दुष्कृतगर्दा । सा चेहपरभवानुष्ठितानां दुष्कृतानां पश्चात्तापपुरस्सरं गुरुसमक्षं निन्दारूपा । यथा - अकर्त्तव्यान्येतानि दुष्कृतानि । अहो ! दुष्ठु कृतं मयाऽधमेन,