________________
पञ्चसूत्रोपनिषद्
५१ कर्तव्यमित्यर्थः, सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात्, यदाहुः - प्रणिधानकृतं कर्म, मतं तीव्रविपाकवत् । सानुबन्धननियमाच्छुभांशाच्चैतदेव तत् - इति । प्रणिधानं हि प्रापयति क्रमेण सिद्धिम् । उक्तञ्च षोडशके प्रणिधानं प्रवृत्तिर्विघ्नजयः सिद्धिरिति क्रमः । स च सूचयति प्रणिधानस्य मूलभावम् । अल्पमपि सुपात्रदानं सञ्जातं प्रणिधानप्रभावतः शालिभद्रत्वनिदानं सङ्गमकस्य ।
यदि तु तीव्ररागद्वेषोदयात्मकतीव्रसङ्क्लेशयोगादति हर्षोद्वेगरत्यरतिमदतृष्णादयः प्रादुर्भवन्ति, तदैतदुपायत्रयस्याऽऽसेवनमभीक्ष्णं करणीयम् । अन्यथाऽपि त्रिसन्ध्यं तु कार्यमेव ।
अनन्तशः स्वीकृतचारित्रेणास्माकं जीवेन कृत एव शरणचतुष्टयस्वीकारोऽप्यनन्तशः, तथापि तात्त्विकतद्विरहेण न जातः पापप्रतिघातः । अतस्तत्सम्पादनाय वक्ष्यमाणार्हदादिविशेषणविसरविषयकश्रद्धासामग्र्येणोरीकार्यं तच्छरणम् । प्रतिपत्तव्यं यथा तत्तद्विशेषणोदिता गुणा विद्यन्ते मुख्यतयाऽर्हदादौ । अन्यत्र तु दोषा एव पापहेतव इति दृढमवधारणीयम् । एवं च सच्छरणतयाऽर्हदादिप्रतिपत्तिः, ततः सुभगम्मानिता च, यथा - अहो महारत्ननिधानवदवाप्तमिदं मयाऽहंदादिशरणम् - इत्यादि । न चानेनावाप्तेन गणयति यत्किञ्चित् कष्टम् । मन्यते सर्वस्वमेनमेव । संवेत्त्येतदनुभावप्रसूतमासन्नभावं मोक्षस्य | भवत्येवमाश्रवसन्त्यागः । सोऽयं पापप्रतिघातः । ततश्चाविलम्बितं गुणबीजाधानम् । भावनीयं शरणस्वीकारे सुलसाश्राद्धीज्ञातम् ।
अर्हन् मम तारकः । एष एव सर्वसुखमूलरूपः । न