________________
५२
२२
पञ्चसूत्रोपनिषद् ह्यतोऽन्यः कश्चिद्दर्शनीयो वन्दनीयः सेवनीयो वा । समर्पयाम्येनमेव स्वजीवनधनम् । भवाम्येतदाज्ञानुपालकः । इत्थम्भूतं संवेदनं शरणोरीकारस्य स्वरूपम् । यथा लूण्टाकप्रकरभीतः कश्चिद् धनवान् सशस्त्रशरणमुरीकर्त्तुकामो याचते करुणस्वरेण तदनुकम्पाम्, तथा भवाटव्यां कर्मकषायदस्युभिरात्महितविनाशमाशङ्कमानैरुरीकार्यमर्हदादिचतुष्टयशरणम्
कर्मकषायविधीयमानदारुणात्मपीडनं तद्रक्षासामर्थ्यसमलङ्कृतार्हदादयस्तत्प्रयुक्तरक्षार्थिस्वात्मा चेत्येवं त्रितयमवश्यं जनयति तात्त्विकं शरणगमनाध्यवसायम् ।
मृत्युसमयेऽनन्यशरणतया गद्गद्स्वरेण गृह्यतेऽर्हदादिशरणम् ।`ज्ञायत एतत्काले यथा- न बन्धुवर्गविभवशरीरादयः प्रत्यला मत्त्राणाय । गन्तव्यमेव मया स्वल्पकालेन परलोकम् । अहो दुष्कृतान्यनुष्ठितानि मया । तद्दारुणविपाकविमुक्तेरर्हदादिशरणमेवोपायः - इति । एवमन्यस्मिनपि कालेऽङ्गीकार्यमर्हदादिशरणम्, मृत्योरनागमकालविरहात् ।
सूत्र : जीवज्जीवं मे भगवंतो परम तिलोगनाहा अणुत्तरपुण्णसंभारा, खीणरागदोसमोहा, अचिंतचिंतामणी, भवजलहिपोआ, एगंतसरणा, अरहंता सरणं ।।
अथार्हच्छरणम् । यावज्जीवमर्हन् मे शरणमस्त्विति. प्रतिज्ञाविशेषः, अभिलाषमात्रत्वे भवान्तरकालस्याप्यन्तर्भावस्य न्याय्यत्वात् । कर्त्तव्य एवैषोऽपीति चेत् ? सत्यम्, तथापि परतो भङ्गभयादेतावत् कालपरिणमाणम्, न पुनरवधित्वेन, परतोऽप्यधिकृतशरणस्येष्टत्वात् । एतत् प्रतिज्ञावच एव ज्ञापयति,