________________
५३
पञ्चसूत्रोपनिषद् यन्न मोच्यमाजीवनमेतच्छरणम् | . . ___अर्हन्तो भगवन्तः परमत्रिलोकनाथाः, श्रेष्ठत्वात्, त्रिलोकवासिनां देवादीनां दुर्गतिभयसंरक्षणकृत्त्वाच्च । ऐहिकस्तु नाथो रक्षति कतिपयादैहिकादेव भयात्, एते तु नाथा भाविनो दुर्गतिभयात् सुदीर्घसंसाराच्च रक्षन्ति । अवन्ति जन्म-जरा-मरणपरम्परात्मकाज्जटिलाज्जालात् । श्रद्धेयमेतदर्हद्वैशिष्ट्यम् । सन्ति जगति कोटिद्रव्यवितरणेन दारिद्र्यविदारकाः, सम्यगौषधप्रदानेन रोगनिवारकाः, शुश्रूषयाऽऽनुगुण्यापादकाः, लूण्टाकादिसकाशाद्रक्षणकृतश्च । नैष महानतिशयः, जन्मादिदुःखापनयनेऽसमर्थत्वात् । अतो माहात्म्यं त्वर्हतामेव । भावनीयमत्र श्रीपार्श्वकुमारविहितं ज्वलत्काष्ठाभ्यन्तरस्थस्य सर्पस्य त्राणम् ।
किञ्चैतेऽनुत्तरपुण्यसम्भाराः, तीर्थकृन्नामकर्म-समन्वित-. त्वाच्छ्रेष्ठयशः सौभाग्यादेयादिपुण्यप्राग्भारालङ्कृतत्वाच्च । अत एव तेषाञ्च्यवनसमयेऽपि कम्पन्त इन्द्राणामासनानि । विधीयते दिक्कुमारिकाभिः सूतिकर्मोत्सवः । क्रियते सानन्दं चतुःषष्टि सुरेन्द्रस्तज्जन्माभिषेक: । प्राप्यते तैरतिशयसन्दोहः प्रागुक्तः प्रातिहार्यादिविभवश्च । एवं श्रेष्ठतमपुण्यशाली परमात्माऽवाप्तोऽस्माभिः । न ह्यतोऽपि परं किञ्चिदवाप्तव्यमिति दृढमवधारणीयम् ।
तथैते क्षीणरागद्वेषमोहाः । राग इष्टाऽऽसक्तिः, द्वेषोऽनिष्टारुचिः, मोहोऽज्ञानम् । एते येषामत्यन्तं क्षीणास्ते विभवः सन्तु मम शरणम् । श्रीवीरस्य नाभवद् गौतमे रागः, नाऽपि गोशालके द्वेषः, नाऽप्यस्य किञ्चिदपि कथनं