________________
पञ्चसूत्रोपनिषद् भवाभावप्रसङ्गः, हेतुविरहात्, मुक्तवत् ।
अतः पूर्वपूर्वबद्धकर्मोदयतोऽवाप्यते तत्तच्छरीरेन्द्रियादिकमित्यवधारणीयम् । एवञ्चानादिः कर्मसंयोग: प्रवाहतः । न च तथापि कश्चित् प्रथमोऽप्यस्तु कर्मसंयोग इति वाच्यम्, निर्हेतुकोद्भवासम्भवात्, अतस्तत्तद्भवः कर्मसंयोगश्च तत्पूर्वपूर्वहेतुकः प्रतिपत्तव्यः । ___ स एष भवो दुःखरूपः, दुःखफलः, दुःखानुबन्धश्च । तत्र दुःखरूपः, सर्वात्मना तन्मयत्वात्, विषयसुखस्यापि परमार्थतो दुःख रूपत्वानतिक्रमात्, सुखाभासमात्रत्वात्, कच्छूकण्डूयनवत् । तृष्णादुःखप्रतिकारजनितक्षणसुखाभिमानमात्रजनकमेव विषयसुखम् । तदेव चाधिकतरतृष्णादुःखवर्धनमित्यसुखमेव वस्तुतः । न हि तद् वस्त्वस्ति संसारे, यन्न स्याद्दुःखरूपम्, अत एव पारमर्षम् - जम्म दुक्खं जरा दुक्खं रोगा य मरणाणि य | अहो दुक्खो हु संसारो जत्थ कीसंति जंतुणो - इति (वैराग्यशतके...., उत्तराध्ययने......)
अपि च दुःखफलक एषः, गत्यन्तरेष्वपि जन्मादिदुःखप्रदत्वात् तत्फलत्वेन दुःखस्यावाप्तेः । न च सकृदेव प्रदाय फलं विरमत्येषः, किन्तु जनयति दुःखपरम्पराम्, अनेकभवानुबन्धिकर्मतबीजजनकत्वात् । ___ एवञ्चानादितयाऽनन्तकालतो बम्भ्रमतोऽप्यस्य जीवस्य विसहतोऽप्यनन्तदुःखानि नाद्यापि सञ्जातः खेदः, नाद्याप्युद्भूतो भवोद्वेगः | उद्भूते तु तल्लेशेऽपि कथं नाम तदन्तकरणयत्नो न स्यादिति । अतोऽल्पकालीनं संयमकष्टलेश सहित्वाऽनन्त