________________
४७
पञ्चसूत्रोपनिषद् कालीनदुःखं विनाशयितव्यम् । रत्नतुल्य एष मनुष्यभवः, न युक्तं रत्नमयेन स्थालेन पुरीषशोधनम्, पुरीषशोधनस्थानीया अत्र विषयभोगाः ।
अतो यतनीयं संसारोच्छेदे ।।
एतस्य भवस्य, णं इति वाक्यालङ्कारे व्यवच्छित्तिर्नाशः शुद्धधर्मात् - ज्ञानदर्शनचारित्ररूपात्, औचित्येन सातत्यसत्कारविधिसेवितात् । न चैष न सम्भवति श्रावकादेरिति वाच्यम्, अभिग्रहपालनेन तेषामपि तद्भावसम्भवात्, अभिग्रहभावस्य सातत्येन भावादिति । पारयन्ति च तेऽपि स्वस्वभूमिकाप्रायोग्यरत्नत्रय्याराधनां साभिग्रहं कर्तुमिति । ... (१) न हि शुद्धाऽपि धर्माराधनाऽनादिकुवासनासम्मार्जने प्रत्यलाऽन्तरेण सर्वगमौचित्यानुपालनम् । तदभावे ह्यनुचितजीविकाऽयुक्तं च वृत्तमापादयति निष्ठुराध्यवसयाम् । ततश्च पाकोत्तारितमृत्तिकावद् गुणघटनायामयोग्यः सञ्जायत आत्मा । अत औचित्यपालनेनानुसन्धेयं भावमृदुत्वम् । न च विशिष्टलोभादि परिहारमन्तरेण तत्पालनं सम्भवतीति यतितव्यं तत्र ।
(२) व्यतीतेष्वनन्तेषु भवेषु दृढीकृताः सन्ति मिथ्यात्वाज्ञानहिंसाहृषीकग्रामाविरतिभिरात्मनि तदध्यवसायाः । तदृढीकरणहेतुस्तु सातत्येन तदाऽऽसेवनम् । अतस्तदपनयनाय तत्प्रतिपक्षेषु दर्शनज्ञानचारित्रेषु यतनीयं सातत्यतः । न हि दीर्घकालीनो रोगः सन्ततमौषधाऽऽसेवन-मन्तरेणोपशाम्यतीत्येवं प्रकृतेऽपि ज्ञेयम् ।