________________
४५ .
पञ्चसूत्रोपनिषद् जीवस्याऽऽवेदितम् । एतेनालोकाश्रयत्वव्यवच्छेदः प्रत्येयः । जीव आत्मा । अतति ताँस्तान् ज्ञानादिपर्यायान् गच्छति - आत्मा । स चानादिः सनातनः, असदुत्पत्त्ययोगात् । यथा हि मृत्पिण्डे तिरोभूतघटसद्भाव एव तन्निवर्तनक्रियया तदाविर्भाव युज्यते, तन्तुषु च समानेऽपि निर्वर्तनप्रयत्ने नाविर्भवति घटः, तस्मिन् तिरोभूतघटस्याभावात् । तदियं सत्कार्यवादवक्तव्यता प्रतिक्रुष्टोऽनेन पञ्चभूतचैतन्योत्पत्तिवादः । कथञ्चित्सदसदवस्थावस्थितो भवति मुत्पिण्डे घटः ।
अन्यतरैकान्ताभ्युपगमे दोषनिकुरम्बयोगात् । एवं सर्वथाऽप्यसदात्मन उत्पत्तिरेवासम्भविनी, शशविषाणादेरप्युत्पत्तिप्रसक्तेः, तुल्यन्यायात् । अतोऽनादिरेष मन्तव्यः । __ न च समुदायप्रयुक्तविशिष्टशक्तियोगाच्चैतन्योत्पत्तिभविष्यतीति वाच्यम्, तादृशशक्तौ प्रमाणाभावात् । प्रत्यक्षमनीक्ष्यमाणत्वात् । अदृष्टाभ्युपगमे युक्तियुक्तस्यात्मन एवाभ्युपगमस्योचितत्वात् । मृतशरीरे पञ्चभूतसमुदायसत्त्वेऽपि चैतन्यासत्त्वादनेकान्ताच्चेत्यन्यत्र विस्तरः |
अतः कर्त्तव्यः स्वतन्त्रद्रव्यतयाऽऽत्माभ्युपगमः, सम्बन्धमात्रं तु भवत्यस्य शरीरेण । तदेव जन्मत्वेनाभिधीयते । ___आत्मवत्तद्भवोऽप्यनादिः । स च मनुष्यादिगतौ संसरणरूपविभावदशात्मकः । न चैष कदाचिन्नाभवत् । भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः । किम्भूतोऽयमित्याह अनादिकर्मसंयोगनिर्वर्तितः, कार्यानादित्वे कारणानादित्वस्यावश्यकत्वात्, अन्यथा तु प्राक् कर्मसंयोगरहितस्य शुद्धस्यात्मनो