________________
.४४
पञ्चसूत्रोपनिषद् सकलविशेषणार्थोपसंहारेणाऽऽह - त्रैलोक्यगुरुभ्यः - इति । त्रैलोक्यवासिसत्त्वेभ्यो गृणन्ति शास्त्रार्थमिति त्रैलोक्यगुरवः, यद्वा त्रैलोक्यवर्तिजीवेभ्यो गुणाधिकत्वात्त्रिलोकपूज्यत्वाद्वा त्रैलोक्यगुरवः । तेभ्यो नमस्कारोऽस्तु । किं विशिष्टेभ्य इत्याह अरुहेभ्यो भगवद्भ्यः । भगः समग्रैश्वर्यादिलक्षणः । स विद्यते येषां ते भगवन्तः, तेभ्यः ।
सूत्र : जे एवमाइक्खंति - इह खलु अणाई जीवे, अणाई जीवस्स भवे, अणाई कम्मसंजोग-निव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे | ___ एअस्स णं वुच्छित्ती सुद्धधम्माओ | सुद्धधम्मसंपत्ति पावकम्मविगमाओ । __पावकम्मविगमो तहाभवत्ताइभावाओ । तस्स पुण विवागसाहणाणि - १ चउशरणगमणं, २ - दुक्कडगरिहा, ३ - सुकडाण सेवणं ।
अओ कायव्वमिणं होउकामेणं सया सुप्पणिहाणं भुज्जो भुज्जो संकिलेसे, तिकालमसंकिलेसे ।
ये परमात्मान एवमाचक्षते - लोकेऽनादिकालीनो जीवः, अनादिश्च जीवस्य संसारः, स चानादिकालीनकर्मसंयोगनिर्वर्तितः, दुःरूपश्च संसारः, दुःखपर्यवसानः, दुःखसन्ततिस्रष्टा च । ___अनुवादकरणस्यापि श्रेयोभूतत्वेन परमात्मोदितमनुवदति ग्रन्थकारः । अतस्तत्प्रारम्भे विघ्नविनायकोपशान्तये मङ्गलार्थ इष्टदेवतानमस्कार उक्तो वेदितव्यः । इहपदेन लोकाश्रयत्वं