________________
पञ्चसूत्रोपनिषद्
४३ सामग्रो | अतो तत्प्रतिघाततः सफलीकार्येयम् । ___स एष वैशिष्टयचतुष्टयविशिष्टः परमात्मा त्रिभुवनगुरुस्त्रिलोकसत्त्वहितोऽनन्यशरणश्च । स एव पिता माता भ्राता त्राता च । अरंहाश्चैष, तदगोचरविरहात् ।
ननु यथार्थवाद्येव भवति सर्वज्ञो वीतरागः अतोऽपार्थकं तद्विशेषणमिति चेत् ? न, असदभ्युपगमव्यवच्छेदार्थत्वात्, तथा ह्यस्त्येवंविधोऽसदभ्युपगमः - किल वीतरागादयोऽपि न यथास्थितवस्तुवादिनः, वस्तु वाचामगोचर इत्युक्तेः । स चानेन व्यवच्छिद्यते । प्रत्येयश्च वागर्थसम्बन्धः, तदभावे सकेंतानुसारेण नियतप्रतीत्ययोगात्, तद्योगस्य च सर्वजनानुभविकत्वाच्चेत्यन्यत्र विस्तरः । __ स्यादेतत्, तर्हि यथास्थितवस्तुवादिभ्य इत्येतावदेवास्तु, नार्थो वीतरागादिग्रहणेनेति चेत् ? न, साम्यतः पूर्वधरादेरपि यथावस्थितिवस्तुवादित्वात्तद्व्यवच्छेदार्थं वीतरागादिग्रहणस्य सार्थकत्वात् । नन्वस्तु तेषामपि ग्रहणम्, गुणवत्तया तत्संस्तवस्यादुष्टत्वादिति चेत् ? सत्यम्, तथापि सर्वत्र गुणप्रकर्षवान् स्तवार्ह इति तस्य तत्सम्पादने तदन्तर्गतगुणानां तत्सम्पादनमेव, उत्कृष्टगुणस्तुतिकुक्षिप्रविष्टत्वा-त्तदन्तर्गतगुणस्तुतेः, तदेतन्न्यायख्यापनार्थत्वादुक्तव्यवच्छेदः समीचीनः । न चैष व्यवच्छेदस्तन्निराकरणार्थमिति ध्येयम् ।
अत्रातिशयचतुष्टयाविनाभाविनो भाविनश्चान्येऽपि देहसौगन्ध्यादयः प्रभूता वेदितव्या । ततश्च-चतुस्त्रिंशदतिशयसमन्वितेभ्यः परमात्मभ्यो नमः - इत्युक्तं भवति । अत एव