SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् देवेन्द्राणां यदहमहमिकया देवाधिदेवगोचरपूजाप्रवृत्तत्वम्, तदत्र महद् वैशिष्ट्यं बालजीवानामपि भगवद्बहुमानोद्भवप्रयोजकम् । न हि तथाविधगुणप्रकर्षपात्रताविरहेऽवगणय्य मनुजक्षेत्रदुर्गन्धं सन्त्यज्य च दिव्याप्सरःप्रभृतिसत्कं सौख्यमवतरेयुर्देवेन्द्रा भगवत्सन्निधौ । तुर्यमभिहितं यथास्थितवस्तुवादीति । विज्ञापयत्येतद् वचनातिशयम् । न ह्यवाप्य कैवल्यं तीर्थकृत् कृतकृत्यतामधिगम्यैवमेव गच्छति मुक्तिम्, किन्तु निरूपयत्येष स्वप्रत्यक्षं तत्त्वं जगतः समक्षम् । उपदेष्टि मोक्षमार्गम् । तारयत्यनल्पभव्यजीवान् । विधत्ते रत्नत्रयीप्रभावनाम् । प्ररूपयत्येष उत्पादव्ययध्रौव्ययुक्तं सत्, जीवाजीवाश्रव-बन्धसंवरनिर्जरामोक्षास्तत्त्वम्, तच्च हेयज्ञेयोपादेयान्यतररूपम्, नाम-स्थापना-द्रव्य-भावलक्षणं निक्षेपचतुष्टयम्, वस्तु प्रमाणनयज्ञेयम्, सप्तभङ्गीप्रतिपाद्यो वस्तुधर्मः, अनन्तधर्मात्मकं वस्तु, मति-श्रुता-ऽवधिमनःपर्यवकेवलात्मकं ज्ञानापञ्चकम् इत्यादि । भावनीयं जिनवचनम् । श्रद्धेयमेतत् । तदर्थं त्याज्योऽसत्पक्षपातः । कर्त्तव्यं जिनवचनमात्मसात् । भेदनीयं विरागशिलीमुखै रागान्तरम् । आपादनीयः प्रतिक्षणं जिनवचनगोचर आत्मजागरभावः । __उत्पाटितदंष्ट्र: सर्वोऽपि रज्जूरेवेत्युत्पाटितव्या रागद्वेषमहाहिदंष्ट्रा । विनाशनीयं कषायविषम् । न ह्येतद्विषपान एव मानुष्यसाफल्यम् । नापि घातिकर्मपोषणार्थमवाप्तेयमुत्तमा
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy