________________
पञ्चसूत्रोपनिषद्
अज्ञानात्मकेन मोहेन न विचारयत्यात्मात्मानं दोषकलुषितम्, अपि तु गुणवन्तम् । प्रमत्तमप्यात्मानं मन्यते सावधानम्, तदेष मोहोऽहड्कारविगमेन निरोद्धं शक्यः, अतो हि गुणदोषविवेकोदयः । ततश्च नियोगतो मोहत्याग इति ।
द्वितीयं भगवद्विशेषणं सर्वज्ञत्वम् । एतच्च ज्ञानातिशयज्ञापकम् । सर्वज्ञो नामानन्तज्ञानसम्पन्नः केवलज्ञानी । स च भूतभाविवर्त्तमानाननन्तद्रव्यपर्यायान् करावस्थिताऽऽमलकवत्पश्यति जानाति च । न ह्यस्य किमप्यज्ञातं नाम, प्रतिबन्धकविरहात्, उक्तञ्च -
ज्ञो ज्ञेये कथमज्ञस्स्यादसति प्रतिबन्धके ? दाह्येऽग्निर्दाहको न स्या-दसति प्रतिबन्धके ? ।।
देवेन्द्रपूजितोऽसाविति तृतीयं वैशिष्ट्यम् । एतेन सूचितः पूजातिशयः । असङ्ख्यसुरसन्दोहस्वामिनोऽपीन्द्रा पूजयन्त्येनम् ।
द्विप्रकारा हि पूजा । तत्र भयादिप्रभवाऽधमपूजा, गुणबहुमानप्रसूता चोत्तमपूजा । अपरया पूज्यते देवेन्द्रैर्देवाधिदेवः | विभावयन्ति तेऽनन्तं जिनोपकारम् । स्पृह्यन्ति तद्गुणगणविभूतिम् । अभिलषन्ति तत्सदृशचारित्रम् । किन्तु नाज्ञाप्रतिपत्त्यात्मकानुत्तमा पूजा तैः कर्तुं शक्या, सर्वविरतिसामर्थ्यविकलत्वात्तेषाम् ।
ननु सा पूजा तु गणधरैः क्रियत एव, अतो गणधरपूजितेभ्य इति वाच्यं स्यादिति चेत् ? न, वैशिष्ट्यज्ञापनार्थत्वाच्छास्त्रारम्भस्य । दिव्यसमृद्धिसौख्यसागरमध्यनिमग्नानामपि