________________
पञ्चसूत्रोपनिषद्
३७ देवेन्द्रपूजितपदेन । (४) यथास्थितवस्तुवादीत्यनेन ज्ञापितः पञ्चत्रिंशदतिशयोपेताया वाचो वचनातिशयः ।
सोऽयमतिशयचतुष्कालङ्कृतो भगवान् त्रैलोक्यगुरुः । गृणाति हितोपदेशमिति गुरुः । स च शुद्धसत्यधर्मोपदेशक: संसारत्यागी विरागी निर्ग्रन्थमुनिरेव भवति । श्रेष्ठस्तु गुरुरहत्परमात्मा ।
अत्र वीतरागपदमुपलक्षणम् । तेन वीतद्वेषो वीतमोह इत्यपि दृश्यम् । रागस्य प्रधानदोषत्वेन तद्विगमस्यैव शेषविगमज्ञापकत्वात् । तत्प्राधान्यं चैवम् -
(१) द्वेषनाशो हि नवमे गुणस्थानके । रागस्य तु दशमगुणस्थानपर्यन्ते । अतो ययाऽध्यवसायविशुद्ध्या द्वेषनाशो भवति, तस्या अधिकतरतद्विशुद्ध्या रागविनाशसम्भव इति फलितम् । (२) राग एव द्वेषजनकः, तद्विरहे तदनुदयदर्शनात्, अतः प्रधानो रागः । (३) सुकरं द्वेषापनयनम्, कालेन तद्धानिदर्शनात् । रागे तु कालगमनप्रयुक्ता भवति वृद्धिरिति दुर्मोक्ष एषः । (४) अल्पकालीनः सम्भवति द्वेषः प्रायः, दीर्घाध्वा तु रागः । (५) द्वेषविस्मरणं सुखेन सम्भवति, न तु रागस्य । यथाजीर्णदोषेण सञ्जातो भोजनगोचरो द्वेषो झटित्यपनीयते क्षुत्प्रभवेण तद्रागेण । (६) कटुकः प्रतिभाति द्वेषः, मधुरश्च रागः । खेद उद्भवति द्वेषतः, हर्षस्तु रागात् । एषोऽनुभवोऽपि रागदारुणताज्ञापकः । (७) प्रयत्नेन क्रियते द्वेषः । प्रकृत्या तु भवति रागः । (८) अयोग्यतया प्रतिभाति द्वेषस्सचेतसः, न तु रागः । (९) अवगम्यते द्वेषप्रयुक्ताभिमतहानिः, न तु