________________
पञ्चसूत्रोपनिषद्
३६
स चोपशान्तमोहोऽपि भवति किन्त्वत्र क्षीणमोह इत्यर्थोऽभिप्रेतः ।
1
द्वितीयं सर्वज्ञत्वम् । त्रैकालिकाशेषद्रव्यपर्यायज्ञानदर्शनोपेतत्वं तदर्थः । न च वीतरागाः सर्वज्ञा एव भवन्तीति नैरर्थ्यमेतद्विशेषणस्येति वाच्यम्, उपशान्तमोहवीतरागेनानेकान्तोपलम्भात् । न चाभिमततात्पर्येण व्यवच्छिन्न एव स इति वाच्यम्, तथात्वेऽपि प्रकृतविशेषणस्यैव तत्तात्पर्यज्ञापकत्वात् । स्यादेतत्, एवदेवास्तु विशेषणम्, एतेनैव पूर्वस्य गतत्वादिति चेत् ? न, निमित्तशास्त्राद्यवगमेन कालत्रयावगन्तुरपि लोके सार्वज्ञ्यव्यवहारदर्शनात्तद्व्यवच्छेदकत्वेन वीतरागपदसार्थक्यात् ।
सामान्य केवल्यपि भवति सर्वज्ञो वीतरागश्च, अतस्तद्वयवच्छेदार्थमाह - देवेन्द्रपूजितेभ्यः - इति । न चैतेनैव पूर्वद्वयस्य व्यर्थत्वमिति वाच्यम्, गणधराणां तत्त्वेऽपि पूर्वद्वयविरहात्, ततश्च तद्व्यवच्छेदकत्वेन सार्थं पूर्वद्वयम् ।
एवं वैशिष्ट्यत्रयविभूषितः परमात्मा धर्मतीर्थस्थापनानन्तरमेव गच्छति मुक्तिमित्यभिधानार्थं यथास्थितवस्तुवादीति तुर्यमभिहितम । स च चतुर्दशपूर्वधरोऽपि भवतीति तद्व्यवच्छेदार्थमाद्यत्रयसार्थक्यं दृष्टव्यम् ।
न रोहति हेत्वभावात्कर्माङ्कुरः येषु तेऽरुहन्तः, तेभ्यः । तदत्र विशेषणचतुष्केऽतिशयचतुष्टयसमवतारो भावनीयः । तद्यथा - ( १ ) अपायापगमातिशयः अपायाः- दोषा रागादयः, तदपगमेन वीतरागाः । यद्वाऽपायाः - उपद्रवा मारिप्रभृतयः, ते च सपादयोजनशते न भवन्ति तीर्थकृन्नामकर्मोदयात् । (२) सर्वज्ञपदेन सूचितो ज्ञानातिशयः (३) पूजातिशयो