________________
पञ्चसूत्रोपनिषद
__३५ ___ अनन्तगुणाधिपतिर्हि वीतरागः परमात्मा । अतस्तद्विषयं विशुद्धं ध्यानं तद्गोचरं चिन्तनं च विशुद्धकोटिकं प्रभूतकर्मनिर्जराप्रयोजकम् । प्राधान्यं भजतेऽत्र भावविशुद्धिः । शुभो ह्यध्यवसायो क्षिणोति तीव्राण्यप्यशुभकर्माणि । अशुभस्तु स एव पाशयति सङ्क्लिष्टतरकर्मभिः । भवति ह्यनीदृशेऽपि बाह्यानुष्ठानेऽध्यवसायविशेषाद् गतिविशेषः । प्रसिद्धमत्र तन्दूलमत्स्यज्ञातम् । ___न चैवमहेया हिंसा, भावविशुद्धेरेव नियामकत्वादिति वाच्यम्, हिंसाप्रवृत्तेस्तद्भावप्रयोजकतया भावमालिन्यनिबन्धनत्वात् । यतस्तत्प्रवृत्तेस्तदनुरागः, ततोऽपि तद्भावभावितता, सा च सम्भवत्यप्रवृत्तिकालेऽपि । अतो दारुणतरा सा । अपि च नियत्कालीना भवति हिंसाप्रवृत्तिः, अल्पा च तथाविधसामर्थ्यादिसामग्र्यभावे । तत्परिणामपरिणतिस्तु सदातन्यपि सम्भवति, बाह्यसामग्रीनिरपेक्षत्वात्प्रबलतमा च । अहो यतनीयं तद्विशुद्धौ । तयैव. सम्भवत्यशुभाध्यवसायनिरोधः, यथा गुरूपदेशश्रुत्यनन्तरभाविन्यां भोजनक्रियायामपि सम्भवत्याहारसज्ञानिरोधाभिलाषान्वयः |
अत्र मङ्गले भगवतो विशेषणचतुष्टयमभिहितम्, तत्राऽऽद्यम् - वीतरागत्वम् । रागद्वेषविनाभूतत्वं च तदर्थः । रागो नामाभिष्वङ्गजननानुगुणं मोहनीयकर्म । अप्रीत्यापादकं कर्म द्वेषः । अज्ञानमिथ्याज्ञानजनकं कर्म मोहः । रागवेदनीयं कर्मेत्याहुराचार्याः, तत्र रागत्वेन भोग्यं कर्मेत्यर्थो विज्ञेयः । रागाद्यात्मकात्मपरिणामोऽपि रागाद्यर्थः । तन्मुक्तो वीतरागः ।