________________
३४
पञ्चसूत्रोपनिषद् गन्धोऽपीत्यतो यतितव्यमस्याम्, श्रीवीरनाथवत्, तथा ह्यनेन प्रियमित्रचक्रि-नन्दनराजर्षिभवयोरुत्तरोत्तरविशुद्धतराराधनाक्रमेणाराधकभावविशुद्ध्याऽवाप्तं तीर्थकृत्त्वमिति ।
अथ पापप्रतिघात - गुणबीजाधानाभिधं
प्रथमं सूत्रम् णमो वीअरागाणं सब्बण्णूणं देविंदपूइआणं ज़हट्ठिअवत्थुवाइणं तेलुक्कगुरुणं अरुहंताणं .. भगवंताणं ।।१।। वीतरागेभ्यः सर्वज्ञेभ्यो देवेन्द्रपूजितेभ्यो यथा स्थितार्थवादिभ्यस्त्रैलोक्यगुरुभ्योऽरुहद्भ्यो भगवद्भ्यो नमः |
अथ पञ्चसूत्रम् । अत्रादिमं वाक्यं मङ्गलम् । कर्त्तव्यं चैतत् । विघ्ननिघातनिपुणत्वात्तस्य, श्रेयसां च विघ्नबहुलत्वात्, यदुक्तम् -
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायका: -इति ।
अतः कर्त्तव्यं मङ्गलम्, तच्चेष्टदेवतास्मरणेन तन्नमस्कारतो वा सम्भवति । सर्वश्रेष्ठेष्टदवता तु देवाधिदेवो वीतरागोऽर्हत्परमात्मेति तद्गोचर एकोऽपि नमस्कारो विनाशयति विघ्नशतानि ।