________________
पञ्चसूत्रोपनिषद्
३३ प्राप्यौ । एतत्क्षयोपशमसानुबन्धभावे भवेदुत्तरोत्तरतदन्वयः । तन्निरनुबन्धभावे तु तद्विच्छेदयोगाद्विराधनातद्भावद्वययोगः । अतो गुणान्वयार्थिना यतितव्यं क्षयोपशमसान्तत्ये । तदर्थमपि त्याज्यमनायतनम् । आयतनं नाम गुणनिबन्धनम्, तद्विरुद्धं त्वनायतनम्, यथा ब्रह्मचराणां वेश्यापाटकम् ।
एवं सद्दष्टेर्मिथ्यादृक्संस्तवस्तदुपदेशश्रुतिश्चानायतनम् । दानरुचेः कृपणपरिचयोऽनायतनम् ।
सानुबन्धक्षयोपशमोपायः - (१) अनायतनत्यागः (२) अभीक्ष्णमात्माध्यवसायनिरीक्षणम् (३) गुणसौन्दर्येप्रकृत्यैवोपादेयमतिः (४) दोषकल्मषजुगुप्सा (५) आयतननिषेवनम् (६) कल्याणमित्रयोगः ।
एतदुपायादृत्या क्षयोपशमे सानुबन्धभावयोगः, ततोऽपि सुरक्षाऽऽराधनायास्तद्भावस्य च । यद्यपि बाह्यप्रवृत्तौ कदाचिद्विराधनावसरः समेति, तथापि न मोच्य आराधकभावः | भावनीयं च - अत्र विषय एषैव तु जिनाज्ञा, किन्तु दुर्भाग्यं मम, यन्न तामनुसर्तुं पारयामि । कर्त्तव्यं तु तदनुसरणमेव । धन्याश्च तत्कृतः । अभिलषाम्यहमपि तदनुपालकताम् - इति । एवं जिनाज्ञाबहुमानेन भवेदाराधकभावत्राणम् । तदुपेक्षया तु तद्विगम एव नन्दमणिकारवत्, यथानेन श्राद्धीभूयापि हारित आराधकभावः, प्राप्तं तिर्यक्त्वम्, पुनस्तद्भावोदयतः सम्प्राप्तो देवभवम्, प्रसिद्धमेतदागमे दर्दुराङ्कदेववक्तव्यतायाम् ।
आराधना ह्याराधकभावोद्गमस्थैर्यवृद्धियोनिः । अतो नैषोपेक्षितव्या । न ह्याराधनायां शक्योद्यममन्तरेण तदुद्गमादि