________________
पञ्चसूत्रोपनिषद् विकसितो भवति चरमार्धपुद्गलपरावर्ते । धत्तेऽपूर्वकरणरूपताम् । भिनत्ति निबिडरागद्वेषग्रन्थिम् । दधात्युत्कटं भवनिर्वेदम् । दृढतरं श्रद्धत्ते सर्वज्ञोक्तं तत्त्वम् । प्राप्नोति सद्दर्शनम् । अलङ्क्रियते प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यैर्विभूषणैः । विभूष्यते चान्यैरपि तत्त्वपरिचय-कुदृष्टिसंसर्गत्याग-जिनशासनगोचरमनोवाक्कायविशुद्ध्यादिभिः सद्गुणैः ।
प्राप्यापि सद्दर्शनं यतनीयमाराधकभावान्वये, यथा न स्याद्विराधकभावस्पर्शोऽपि । जिनाज्ञायां भावप्रतिबन्ध एव सद्दर्शनपीठिका । स च आवीतरागतावाप्तिमभिधारणीयः | अत एवोच्यते - धम्मो आणाए पडिबद्धो - इति (श्रावकधर्मविधिप्रकरणे....) यदेवं जिनाज्ञया कर्त्तव्यतयोच्यते, तदेव धर्म इति तदर्थः । न ह्यविरतसदृष्टि जिनाज्ञानुपालनसामग्र्ये शक्तः | तथापि तत्र तत्प्रतिबन्धो भवति । मन्यते च - जिनाज्ञैव संसारोत्तारहेतुः, तदेव सत्यं निःशकं च यत्प्रज्ञप्तं जिनैः, एतदेव च कर्त्तव्यम् । स एष जिनाज्ञासापेक्षभाव एवाऽऽराधकभावः ।
अनेन जागर्ति वीर्योल्लासः, स्वीकरोति सर्वतो देशतो वापि जिनाज्ञानुपालनम् । उच्यते चैष साधुः श्रावको वा । एतदनुपालकेन सन्ततमपि सावधानेन भाव्यम् । यतो जगत्संयोगाः कर्मोदयाश्च विस्मारयन्त्याराधनाम् । अतः क्षयोपशमान्वयरक्षां विधायाशुभनिमित्तानि त्यक्त्वा च शक्यमाराधकभावानुधारणम् ।
जिनाज्ञाराधनमाराधकभावश्च मोहनीयादिकर्मक्षयोपशमतः