________________
पञ्चसूत्रोपनिषद्
३१
नीति-सदाचार-परिग्रहपरिमाणाख्या यमाः (२) तपः स्वाध्याये - श्वरध्यानशौचसन्तोषलक्षणा नियमाः (३) पद्मासनादय आसनानि (४) बाह्यभावरेचनमान्तरभावपूरणमात्म-गुणस्थैर्यलक्षणकुम्भकं चेत्येतत्रितययोगेन प्राणायामः इत्येतेषां साधनं क्रियते । सङ्गृह्यते चात्र योगबीजपञ्चकम्, तद्यथा - (१) वीतरागगोचर - शुभचिन्तनपूजन प्रणामादि । ( २ ) आचार्यसेवा ( ३ ) सहजो भवोद्वेगः (४) अभिग्रहाः ( ५ ) शास्त्रलेखनादि - इति ।
यथाप्रवृत्तिकरणाख्यशुभाध्यवसायेनावाप्यन्त उक्तात्मदृष्ट्यादयः प्राणायामपर्यन्ताः सद्गुणाः । ततोऽप्यनन्तरं निबिडरागद्वेषग्रन्थिभेदसम्पादनार्थमावश्यकमपूर्वकरणम् । दुर्लभं खल्वेतत् प्राप्यतेऽपार्द्धपुद्गलपरावर्त्तशेषे संसारे । ततः प्राक् तु प्रभवत्यसद्गोचरो रागः ।
-
दुर्लभं खलु शुद्धं मोक्षानुष्ठानम् । अपूर्ववीर्योल्लासमात्रप्राप्यं तत् । न ह्यात्महितमन्तरेण किमपि स्पृहणीयं वस्तु नाम । तथापीदं जीवस्य मौढ्यम् । यत उत्सहते विषयसौख्यसन्मानाद्यर्थं कष्टानि सहितम्, परप्रेष्यतां च कर्तुम् । सीदति त्वात्महितानुष्ठाने । एवञ्च
यो ध्रुवाणि परित्यज्य, अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति, अध्रुवं नष्टमेव च । इतिन्यायस्यावतारः । परिणामस्त्वस्यनरकादिदुःखमये भवचक्रे पुनः पुनर्भ्रान्तिरेव ।
एवं विज्ञाय प्रापणीयोऽबाध्यतां धर्मपुरुषार्थः । स एष
-