________________
३०
पञ्चसूत्रोपनिषद् भवति हानिः । तल्लक्षणं चैतत्त्रितयम् -
दुःखितेषु दयाऽत्यन्त - मद्वेषो गुणवत्सु च । औचित्यासेवनं चैव, सर्वत्राप्यविशेषतः । - इति
उपलभ्यतेऽत्रान्तर आत्मविश्रान्ता प्रेक्षा । ततोऽपि सद्गुरूपदेशादिनिमित्तयोगत व्यापार्यते दृक् शुद्धात्मस्वरूपे ।
यद्यपि तथाविधबोधाभावे प्राक् तत्त्वरुचि विरहः, तथाप्युपशाम्यत्यत्र प्राक्तनस्तत्त्वद्वेषः, उदेति तत्त्वजिज्ञासा, जागर्ति तत्त्वशुश्रूषा । ततोऽपि भवति तत्त्वश्रवणम् । एतद्धि सोपानचतुष्टयमाद्ययोगदृष्टिचतुष्कस्य ।।
विरजत्यनेन जन्म-जरा-मृत्यु-रोग-शोकाद्युपप्लुताद् भवस्वरूपतः, संवेत्त्येतन्निर्गुणताम् । ततश्च निर्विद्यत एतद्विषचक्रतः । ततश्च न श्रद्दधाति विषयसौख्यम् । एवं वैराग्यापराभिधानभवनिर्वेदाधिगतिः ।
किञ्च नास्य भवति पापप्रवृत्तौ तथाविधस्वरसः । एवमाप्नोत्यसावपुनर्बन्धकत्वम् । सप्ततिसागरोपम-कोटाकोटिलक्षणां । मोहनीयकर्मस्थितिं यः पुनर्न बध्नाति स ह्यपुनर्बन्धकः | तत्त्वयोगतो दयादानत्यागतपोदेवगुरू-पासनव्रतनियमेष्वंशेन प्रवृत्तिधर्मपुरुषार्थः । एतेनान्यायानीत्य-नुचितव्ययोद्भटवेषादिदोषनिरोधपुरस्सरं प्राप्यन्ते न्यायसम्पन्नत्वमातृपितृ-पूजाऽतिथिसेवाज्ञानवृद्धसंयमिभक्त्यान्तररिपुनिग्रहेन्द्रियदमदयापरोपकारसौम्यताधर्मश्रुत्यादयो गुणसम्पदः ।
अत्राद्ययोगदृष्टिचतुष्टये क्रमेण (१) अहिंसा - सत्य