________________
पञ्चसूत्रोपनिषद्
- २९ कृष्णपक्षगतो हि जीवो हारयति प्राप्तामपि मुक्तिसाधनसामग्रीम्, रमते तामसभावे, सेवते स्वर्गाद्यभिलाषेणोग्रचरणमपि । तथापि शुक्लपक्षविरहेण नावाप्नोत्यात्मस्वरूपस्थैर्यलेशमपि । यदा तु मुक्तेरक्तिनः पुद्गलपरावर्त्तमात्रकालोऽवशिष्यते तदैव तथाविध योग्यताधिगमेन सफलयत्येष उक्तसामग्रीम् । एष च कालः समयपरिभाषया चरमावर्तोऽभिधीयते । तदवाप्तौ प्रयोजकद्वयम् (१) अनादिसिद्धभव्यत्वस्वभावः (२) एतावत्कालयापनं च । - भव्यत्वं नाम मुक्त्यवाप्तियोग्यता, यथा हि कुम्भकारसगृहीता मृत्तिका घटनिर्मितियोग्या भवति, अयोग्या तु तटिनीतटीस्थिता । काचित्तु योग्यापि वन्यप्रदेशव्यवस्थिततया सामग्रीविरहेण नावाप्नोति घटभांवम् एवं केचिज्जीवा मुक्तिमधिगन्तुं सर्वदाप्ययोग्या एव, तेऽभव्याः । केचित्तु निःसृत्यानादिनिगोदा अभिमुखा भवन्ति मुक्तेः, ते भव्याः । केचित्तु योग्या अपि न कदाचिन्निःसरिष्यन्ति निगोदात्, ते जातिभव्याः | भव्यस्य मुक्तिगमनाधिकारः पौरुषमृतेरेवानादिसिद्ध इति तात्पर्यम् । अतस्तत्साधनप्रवृत्तेर्भव्यत्वपरिपाकः कर्त्तव्य इति ।
न हि चरमावर्त्तप्रवेशमात्रत ओघदृष्टिविगमो भवति, तथानियमाभावात् । तद्विगमो योगदृष्टिप्राप्तिश्चावश्यं चरमावर्त एव भवति, नान्यत्र । तयोः प्रयोजकस्तु भवति सहजमलहानतः ।
अनादिकालीनौ तीव्ररागद्वेषौ हि सहजमलभूतौ, आत्ममालिन्यप्रयोजकत्वात् । चरमावर्ते तस्य विशिष्टतरा