________________
पञ्चसूत्रोपनिषद् योगदृष्टिसमुच्चयकाराः । ओघदृष्टिस्त्वनादिकालीनभवाभिनन्दिभावहेतुकाऽऽत्मविस्मरणप्रयुक्ता पुद्गलप्राप्यानन्दमात्रविश्रान्ता दृष्टिः ।
अनादिकालतो जीवो न्यवसत्सूक्ष्मनिगोदे | व्यतीता अनेनात्रै वानन्ताः पुद्गलपरावर्त्ताः । भवन्ति हि निगोदे सर्वमुक्तात्मानन्तगुणाः जीवाः, यदार्षम् - जइयाइ होइ पुच्छा जिणाण मग्गंमि उत्तरं तइया । इक्कस्स णिगोयस्स अणंतभागो य सिद्धिगओ ।।
किञ्च निगोदजीवानामायुष्यमन्तर्मुहूर्तमात्रम्, कदाचित्तु क्षुल्लकभवमात्रमेव । तदा सञ्जायन्ते तेषामेकोच्छवासमात्रे काले साधिकसप्तदशभवाः । अनुभवन्त्येते नरकदुःखादप्यनन्तगुणं दुःखम् | न चान्तरैषां बादरनिगोदादिष्ववतरणव्यवहारो भवतीत्यतोऽव्यवहारराशिगता एते प्रोच्यन्ते । ते चैकस्मिन् शरीरेऽनन्तजीवा अनुभवन्त्यनन्तं दुःखम् । सोढमेतादृशं दुःखमनन्तं कालं यावदस्माभिः । यदा तु कश्चिज्जीवो व्रजति मुक्तिम्, तदा विपक्वभवितव्यतया एको जीवो निर्गच्छत्यव्यवहारराशिनिगोदतः । ततोऽपि भ्राम्यत्यसौ बादरनिगोदादिषु । व्यवह्रियते ततोऽसौ पृथिवीकायादिष्वतो व्यवहारराशिगततयाऽभिधीयते । ततोऽप्यनुभवत्यनन्तं जन्ममरणादिदुःखम् । लभते कदाचित् कथञ्चिन्मनुष्यभवम् । किन्तु हारयति तं विषयकषायादिभिः । गच्छति ततोऽपि सूक्ष्मनिगोदम्, तथापि व्यवहारराशिजीवोऽभिधीयते ।